विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९॥
कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः।
२०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)