अव्ययीभावः समासः (Indeclinable Compound) वर्तते (continues)

अनुगङ्गं वाराणसी (‘Banaras is situated/extends along the Ganga’)
अनुयमुनं मथुरा
अनुगङ्गं हस्तिनापुरं
अनुशोनं पाटलीपुत्रं इत्यादि

यस्य चायामः (२।१।१६) इत्यनेन अनुः यस्य दैर्घ्यं सूचयति तेन (लक्षणभूत-) शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति।
अनुगङ्गं वाराणसी इत्यत्र गङ्गायाः प्रसिद्धत्वात् गङ्गैवात्र लक्षणम्, न तु वाराणसी। प्रसिद्धं हि लक्षणं भवति नाप्रसिद्धम् ।

नद्यः खलु प्रसिद्धाः न तु नगर्यः इति प्रमाणभूतवैयाकरणाः🙂

२०१४-१२-२५ गुरुवासरः (2014-12-25 Thursday)