विकासस्य विवाहः (Vikas’s Wedding)

अद्य विकासस्य विवाहः आसीत्। सः अस्माकम् मित्रस्य लालचन्दस्य पुत्रः अस्ति। विकासः सेरिकानाम कन्यया सह विवाहम् अकरोत्। विवाहे अस्माकं मित्रः राजेन्द्रः एडमन्टननगरतः केनेडादेशतः आगच्छत्। चन्द्रशेखरः अपि विवाहोत्सवाय मेल्बोर्नतः आगच्छत्। विवाहे एकम् आश्चर्यं तु अस्ति अहं पुरोहितः आसम् इति। कन्या ओस्ट्रेलियादेशीया अस्ति तस्मात् अनेकाः जनाः अभारतीयाः सन्ति स्म। तेभ्यः अहम् अमुकवर्णनं आङ्ग्लभाषायाम् अकरवं किञ्चित् हास्यं अपि अकरवम्। तस्मात् ते अपि विवाहोत्सवात् अतीव प्रसन्नाः अभवन्।

२०११-०२-१९ शनिवासरः (2011-02-19 Saturday)

2 thoughts on “विकासस्य विवाहः (Vikas’s Wedding)

  1. पुरोहितकार्यं उन्नतमेव। अपितु प्रायः जनाः स्वकर्मभूमिवासनां विहाय अन्यक्षेत्रेषु किञ्चिदपि कर्त्तुं न शक्नुवन्ति। यदि विद्युत्प्राचार्यः विवाहपुरोहितः भवति, तर्हि वारीणि वर्जयित्वा वधूवरं विद्युत्तरङ्गैः सह प्रोक्षणं करिष्यतीति भीताः भवन्ति अस्मादृशाः पामरजनाः 🙂 अतः अभ्यागताः सर्वे विवाहोत्सवात् अतीव प्रसन्नाः अभवन् इति श्रुत्वा अहमपि प्रसन्नोऽभवम् 🙂

    भवतः पुरोहितवृत्तिः वर्धताम् अभिवर्धताम् ।

    Like

    1. विवाहोत्सवपूर्वं कन्या तु भीता आसीत् । सा बिभेति विवाहप्रकरणं दीर्घं जटिलं च भविष्यति तस्मात् तां कथं जनाः अवलोकयिष्यन्ति इति सा अचिन्तयत्। यदि सा अज्ञास्यत् अहं विद्युतप्रवाहैः प्रोक्षणं करिष्यामि इति तर्हि सा विवाहोत्सवे अपि ना आगमिष्यत् । वरवध्वौ प्रसन्नौ आस्तां यतो हि मया निर्धारितकालपूर्वमेव लग्नविधिं सम्पूर्णं कृतम् ।
      आगामिवारे यदा कोऽपि मां विवाहाय आवहिष्यति तदा अहं तं विद्युतप्रवाहैः प्रोक्षणं करिष्यामि इति सुचयिष्यामि।

      Like

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.