वधूवरम् (Bride and Groom)

शब्दकोषे अस्ति यदि वधूवरं एकवचने अस्ति तदा नपुंसकलिङ्गशब्दः अस्ति किन्तु यदि बहुवचने अस्ति तर्हि पुंलिङ्गशब्दः अस्ति। वधूवराः इति शब्दस्य अर्थः कदाचित् अस्ति एकः वरः किन्तु अनैकाः वध्वः इति। कोऽपि पण्डितः इमं विषयं प्रकाशयतु।

२०११-०२-२० रविवासरः (2011-02-20 Sunday)

One thought on “वधूवरम् (Bride and Groom)

  1. कालिदासप्रयोगः –

    प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् ।
    सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ? ।। ७.७८ ।।

    वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । “स नपुंसकम्” इति नपुंसकत्वम्, समारद्वन्द्वे, द्विगौ च, एकवद्भावे नपुंसकलिङ्गमेव प्रयोक्तव्यम्, अन्यत्र इतरेतरयोगे, वधूवरौ वधूवराः इत्यादि इति द्वन्द्वे परवल्लिङ्गात् पुंलिङ्गे प्रयोगः, द्विवचनं बहुवचनं वा यथायोग्यं प्रयोक्तव्यम्। “द्वन्द्वतत्पुरुषयोरुत्तरलिङ्गता” इति नियमात् तत्पुरुषे, द्वन्द्वे इतरेतरयोगे च उत्तरपदलिङ्गता इति बोध्यम्। अनेका वध्वः, एको वरः इति द्वन्द्वे च, वधूवराः इत्येव बहुवचनं पुंलिङ्गे अनेके वधूवराः इति।

    न एकाः इति अनेकाः, अथवा नैकाः इति प्रयोगः स्त्रीलिङ्गे, अनेकशब्दात् पुंलिङे तु अनेके इति साधूः प्रयोगः, अन्यथा दुष्टः प्रयोगः।

    Like

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.