प्रत्यगात्मा (Inner self)

यत् प्राचि नास्ति बहिर् नास्ति किन्तु प्रतीचि अस्ति अन्तः अस्ति इति प्रत्यगात्मा।
प्रत्यगात्मन् {@प्रत्यगात्मन्@}¦ प्रतीचो जीवस्यात्मा स्वरूपम्
प्राञ्च्

  • अञ्च् (अञ्चु-गतिपूजनयोः)।
  • ‘प्राणो नाम प्राग्गमनवान् नासाग्रवर्ती’ (वे० सा० ३८)। प्राञ्चति अग्रे गच्छतीति प्राक्।

    प्रत्यञ्च्
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘प्रत्यङ् नः सुमना भव’ (अथर्व० ३।२०।२, ऋ० १०।१४१।१)। अस्मान्प्रत्यञ्चन्, अस्मदभिमुखं गच्छन्।
  • ‘जहि प्रतीचो अनूचः पराचः’ (अथर्व० ३।१।४)। प्रतीचः प्रतिमुखमागच्छतः। पराचः पराङ्मुखं गच्छतः।
  • ‘ऋतव: सर्वे पराञ्चः सर्वे प्रत्यञ्चः’ (श० ब्रा० १२।८।२।३५)। प्रत्यञ्चः परावृत्ताः, अभिमुखगामिनः।

    २०२३-१२-३१ रविवासरः (2023-12-31 Sunday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.