उपयुक्तौ शब्दौ (Appropriate Words)

Subjective, objective इति शब्दाभ्यां संस्कृतभाषायां कौ उपयुक्तौ शब्दौ स्तः। Subjective truth, objective truth इति संदर्भे उपयुक्तौ शब्दौ ज्ञातुम् इच्छामि।

२०१४-०६-२३ सोमवासरः (2014-06-23 Monday)

अस्माकं कन्या (Our Daughter)

अद्य सायंकाले रामकृष्णाश्रमस्य सिडनीस्थः श्रीस्वामिश्रीधरानन्दमहाराजः गीतायाम् उपरि प्रवचनं दास्यति। गत सप्ताहे अस्माकं कन्यायाः विद्यालये तस्याः परीक्षाम् आसीत्। परीक्षायाः परं सा ह्यः प्रभृतिः स्वयं संपूर्णां मनोरञ्जने एव निमज्जयति। प्रातःकाले मया सा निवेदिता – इदानीं तव सकाशे अवकाशम् अस्ति तदा अद्य सायंकाले मया सह गीताप्रवचने कृपया आगच्छ इति। सा अपृच्छत् – अपि स्वामी सम्पूर्णगीतापाठं करिष्यति इति। सा अवदत् – यदि सः सम्पूर्णगीतापाठं करिष्यति तर्हि आवाभ्यां बहुकालं यावत् तत्र स्थातव्यम् इति मम चिन्ता अस्ति।
माम् अत्यन्तम् आश्चर्यं भवति कथं मम कन्या गीता-प्रवचनपाठयोः भेदं न जानाति। यदा अहं तया सह वार्तालापं करोमि तदा सा किमपि शृणोति वा न शृणोति इति मां संशयः अस्ति।

२०१४-०६-२२ रविवासरः (2014-06-22 Sunday)

निष्क्रयधनम् (Ransom)

इयम् आकाशवाणी कथयति इराकदेशे अपहृतेभ्यः भारतीयश्रमिकेभ्यः निष्क्रयधनार्थम् इदानीं यावत् का अपि सूचना न अस्ति इति। निष्क्रयधनम् इति निष्क्रयणम् अपि कथ्यते।

२०१४-०६-२१ शनिवासरः (2014-06-21 Saturday)

डॉमनमोहनसिंहः आरब्धवान् (Dr Manmohan Singh started it)

ह्यः राहुलवर्यस्य जन्मदिवसः आसीत्। तेन प्रसङ्गेन जनाः हास्यवाक्याणाम् आदान-प्रदानम् अकुर्वन्। रोषिनः कॉग्रेसदलीयाः अपृच्छन् कथम् अस्माकं नेतारम् अपमानं कुर्वन्ति इति। कोऽपि प्रत्यवदत् – अस्मान् न दोषम् ददातु अस्य हास्यस्य आरम्भः तु डॉमनमोहनसिंहेन कृतः। तेषां सर्वेषां हास्यवाक्यानाम् आदिवाक्यम् अस्ति राहुलः प्रधानमंत्रिपदस्य सर्वथा यथायोग्यतमः प्रत्याशी अस्ति इति। इदं हास्यतमम् आदिवाक्यं तु डॉमनमोहनसिंहेन उक्तं वयं तु तस्य हास्यस्य अनुकरणम् एव कुर्मः।

२०१४-०६-२० शुक्रवासरः (2014-06-20 Friday)

आनन्ददायका वाणी (Joy giving words)

ह्यः मया प्रथमवारं यूट्यूब-माध्यमेन ॐ-स्वामिनः आनन्ददायकं प्रवचनं श्रुतम्।
http://www.omswami.com/

२०१४-०६-१९ गुरुवासरः (2014-06-19 Thursday)

ईराकदेशस्य स्तिथिः (Iraq’s Condition)

प्रायः अहं भारतस्य विना कस्यापि देशस्य चिन्तां न करोमि किन्तु सर्वं दृष्ट्वा अहं मन्ये ईराकदेशस्य स्तिथिः गभीरा अस्ति। ते अकारणे जनान् मारयिष्यन्ति संपत्तयः विनाषं करिष्यन्ति लोकान् पीडयिष्यन्ति च। कोऽपि तान् अवरोद्धुं न शक्ष्यति। निर्दोषजनाः दुःखं प्रापयिष्यन्ति। किं करणीयम्।

२०१४-०६-१८ बुधवासरः (2014-06-18 Wednesday)

उदाहरणम् (An Example)

इव इति कथं प्रयुज्यते तस्य उदाहरणं दर्शनाय डॉसम्पदानन्दमिश्रवर्येण अयं श्लोकः प्रेषितः।
मातेव रक्षति पितेव हिते नियुक्ते
कान्तेव च अभिरम्यति अपनीय खेदम्।
कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
किं किं न साधयति कल्पलता इव विद्या॥

२०१४-०६-१७ मङ्गलवासरः (2014-06-17 Tuesday)