Updates from August, 2008 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 4:39 pm on August 22, 2008 Permalink | Reply  

    कनुवर्यस्य माता दिवं गता (Kanubhai’s mother passed away) 

    बुधवासरे प्रातःकाले नवसारीनगरे गुर्जरप्रदेशे भारतदेशे अस्माकं मित्रस्य कनुवर्यस्य माता दिवं गता। कनुवर्यः तेन परिवारेण सह केन्बरानगरे निवसति। तस्य माता तस्य भगिनीभ्यां सह नवसारीनगरे न्यवसत्। मम पितरौ पुरा नवसारीनगरे न्यवसताम्। यदा अहं नवसारीनगरम् अगच्छं तदा तया सह अमिलम्। सा अतिसरलस्वाभावशाली महिला आसीत्। अद्य वयं कनुवर्यं मिलनाय तस्य गृहम् अगच्छम्।

    २००८-०८-२२ शुक्रवासरः (2008-08-22 Friday)

    Advertisements
     
    • K.Michael Ferranti 2:55 am on October 30, 2010 Permalink | Reply

      Can you please translate for me in Sanskrit:
      KANUBHAI DAS

      THANK YOU, KANUBHAI DAS

  • Himanshu Pota 8:32 pm on August 21, 2008 Permalink | Reply  

    उसेनबोल्टवर्यः (Mr Usain Bolt) 

    ओलम्पिकस्पर्धायाम् उसेनबोल्टवर्यः १००-मानमितस्य २००-मानमितस्य धावनस्पर्धायां प्रथमः अभवत्। कथं तस्य पितरौ अजानतां सः बोल्ट इति भविष्यति?

    २००८-०८-२१ गुरुवासरः (2008-08-21 Thursday)

     
    • Karthik Raman 9:02 pm on August 21, 2008 Permalink | Reply

      उसेनबोल्टवर्याय पूर्वं क्रिकेटक्रीडा अतीव रोचते। सः पाठशालयाम् एकः सम्यक् `फास्ट् बोलर्’ आसीत्। परन्तु तस्य गुरुः तस्य वेगं दृष्ट्वा तस्मै धावनं कर्तुं दर्शितवान्!

  • Himanshu Pota 8:04 pm on August 20, 2008 Permalink | Reply  

    पुस्तकालय-तालिका (Library Catalogue) 

    अहं बाल्यकालात् प्रभृति ग्रन्थप्रेमी आसम्। अद्य आवयोः ज्यायसी कन्या अवदत् मम पुस्तकालय-तालिका कथं द्रष्टव्यम् इति ज्ञातुं एकः वर्षः अभवत् इति। तत् श्रुत्वा आवयोः कनीयसी कन्या अवदत् अहं पुस्तकालय-तालिका किम् अस्ति इति अपि न अजानम् इति। मम पुस्तकप्रेमिनः गृहे ईदृशे कन्ये कथम् आगच्छताम्।

    २००८-०८-२० बुधवासरः (2008-08-20 Wednesday)

     
  • Himanshu Pota 8:03 pm on August 19, 2008 Permalink | Reply  

    वृद्धावस्था (Old Age) 

    अद्य मया एकायां परिषदि हिन्दूजनानां वृद्धावस्थायां कथं पालनं कर्तव्यम् इति विषये प्रवचनं दत्तम्। प्रवचने अहं वर्णाश्रमानां अचर्चयं तत् परं सर्वं खलु इदं ब्रह्म इति मतं अकथयम् तत् परं नेति-नेति इति विवेकमार्गस्य वर्णनम् अकरवम्।

    २००८-०८-१९ मङ्गलवासरः (2008-08-19 Tuesday)

     
  • Himanshu Pota 10:24 pm on August 18, 2008 Permalink | Reply  

    जेवियरवर्यस्य शोधग्रन्थः (Xavier’s Thesis) 

    अद्य अहं गृहे एव अतिष्ठं कार्यालयं नागच्छम्। सम्पूर्णदिवसे मम छात्रस्य जेवियरवर्यस्य शोधग्रन्थम् एव अपठम्। सः आगामिनि सप्ताहे तस्य शोधग्रन्थं परीक्षार्थे दास्यति।

    २००८-०८-१८ सोमवासरः (2008-08-18 Monday)

     
  • Himanshu Pota 10:14 pm on August 17, 2008 Permalink | Reply  

    सम्मेलनस्य आरम्भः (Starting of a Conference) 

    अद्य वृद्धानां जनानां कथम् तेषां आध्यात्मिकाय विकासाय सहाय्यं कर्तव्यम् इति विषये एकं सम्मेलनम् आरब्धवान्। सम्मेलनस्य अद्य स्वागतसमारोहः आसीत्। अहं मम भार्यया मीताया सह तस्मिन् समारोहे अगच्छम्। मीता अर्धहोरापर्यन्तम् एका प्रख्याता वितन्तुक-संवाददातया सह अजल्पत् किन्तु मीता ना अजानत् तस्याः संवादी का अस्ति इति। स्वागतसमारोहस्य परम् आवां रात्रौ नववादने गृहं प्रत्यागच्छताम्।

    २००८-०८-१७ रविवासरः (2008-08-17 Sunday)

     
  • Himanshu Pota 10:13 pm on August 16, 2008 Permalink | Reply  

    रक्षाबन्धनः (Rakhi) 

    अद्य अहं मम भार्यया सह तस्याः भ्रातुः नेहलस्य गृहम् अगच्छम्। नेहलस्य गृहे अधुना तस्य माता तस्य श्वशुरः स्वश्रूः च सन्ति। तैः सह वयं भोजनम् अकुर्मः। नेहलस्य भार्या सुस्वादुं भोजनं पचति।

    २००८-०८-१६ शनिवासरः (2008-08-16 Saturday)

     
  • Himanshu Pota 8:05 pm on August 15, 2008 Permalink | Reply  

    हिन्दीदिवसः (Hindi Day) 

    १४ सितम्बरः इति हिन्दीदिवसः अस्ति। तस्य दिवसस्य उत्सवः कथं करिष्यामः इति चर्चयितुं अद्य एकं मेलनम् आसीत्। तस्मिन् मेलने अहं सन्तोषवर्यः रिचर्डवर्यः च आसन्। रिचर्डवर्यः ओस्ट्रेलिया-राष्ट्रीय-विश्वविद्यालये हिन्दीविभागे अस्ति। सः हिन्दीदिवसस्य उत्सवाय अतीव उत्साहितः अस्ति।

    २००८-०८-१५ शुक्रवासरः (2008-08-15 Friday)

     
    • rads 11:29 pm on September 15, 2008 Permalink | Reply

      need more information. Not enough.
      Bigger font required.

    • Himanshu Pota 7:51 am on September 16, 2008 Permalink | Reply

      हिन्दी-दिवसस्य विवरणं यदि लेखिष्यामि तर्हि भवतीं प्रेषयिष्यामि|

      धन्यवादः।
      हिमांशुः।

    • esha 8:00 pm on September 25, 2008 Permalink | Reply

      kuch jyada nahi hai information ke liye…

  • Himanshu Pota 7:27 pm on August 13, 2008 Permalink | Reply  

    मुखम् (Face) 

    २००८-०८-१३ बुधवासरः (2008-08-13 Wednesday)
    मुखे एकं ललाटं द्वे नेत्रे एकः ओष्ठः एकः अधरः एका नासिका द्वौ कपोलौ च सन्ति। मुखे द्वे लोचने स्तः। मुखे द्वे नयने स्तः।

     
  • Himanshu Pota 7:26 pm on August 12, 2008 Permalink | Reply  

    कुट्टिमम् (Tiled floor) 

    अस्माकं गृहे नीचैः कक्षे कुट्टिमानि सन्ति। उपरि कक्षे कुथाः सन्ति।

    २००८-०८-१२ मङ्गलवासरः (2008-08-12 Tuesday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel