सदानन्दः आगच्छत् (Dr Sadananda Das came)

अद्य सदानन्दवर्यः अस्माकं गृहे आगच्छत्। सः सम्भाषणम् संस्कृतं पाठयति। तेन द्विसप्ताहात्मकः शिविरः आयोजितः। तस्य शिविरस्य अद्य अन्तिमः दिवसः आसीत्। ततः परं सः केन्बरानगरे अस्ति। अहं तं प्रथमवारं त्रिवर्षपूर्वं मिलितवान्। तदा इदं वृत्तपत्रस्य लेखनम् आरब्धवान्। यदा अहं तेन सह संस्कृत-भाषायां सम्भाषणं करोमि स्म तदा मम परिवारजनाः माम् अकथयन् कृपया इदं मा कुरु सदानन्दवर्यं शिरोवेदना भविष्यति इति। तत् श्रुत्वा सः अवदत् मां शिरोवेदना बाधते किन्तु तत् सम्भाषणात् न भवति इति।

२००९-०२-२० शुक्रवासरः (2009-02-20 Friday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.