ज्यामितिप्राचार्यः सौश्रवसः

गतमासे ३० जून् दिनाङ्के प्यारीस् नगरे तत्रस्थे भारतभवने संस्कृतदिवससमारोहः आयोजितः इति श्रूयते। प्यारीस् नगरे प्रथमवारमायोजिते अस्मिन् समारोहे उपस्थिताः सन्तः जनाः देवभाषायाः महत्त्वं सम्यग् अनुभूतवन्तः भूयः प्रशंसितवन्तः च इत्यपि श्रूयते। समारोहकार्यक्रमपटले ‘सौश्रवसपाणिनिशास्त्ररीतिद्वयपरीक्षा’ इत्येकं चर्चाविषयं दृष्ट्वा अतीव विस्मयभूतोऽभवं कोऽयं सौश्रवसो यस्य शास्त्रः व्याकरणशास्त्रेण सह तुल्यते इति।

कार्यक्रमपटलं किञ्चिद् निरीक्ष्य सौश्रवसनाम्ना सूचितोऽयं शास्त्रज्ञः कः इति अवगच्छम्। स एव आङ्लभाषायां ‘यूक्लिड्’ इति अभिधीयते। यूक्लिड्वर्यः यवनदेशीयज्यामितिप्राचार्य: इति अखिलभुवने सुविदित: सुप्रसिद्धः सुपूजितश्च। तस्य बहुमूल्यशास्त्रः व्याकरणशास्त्रेण सह परीक्षितुमर्हतीति मन्ये।

२०१२-०७-११ बुधवासरः (2012-07-11 Wednesday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.