मण्डलम् ४, सूक्तम् ५८, ऋक् ५
संहिता
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
अभिकाश् –
अभि + काश् (काशृ दीप्तौ)।
‘तया नस्तन्वा शन्तमयाभि चाकशीहि’ (वा० सं० १६।२)। अभिचाकशीहि=उद्भासय विभापय।
‘धृतस्य धारा अभि चाकशीमि’ (ऋ० ४।५८।५)। अभिचाकशीमि सम्पश्यामि प्रेक्षे।
२०२३-0१२-29 शुक्रवासरः (२०२३-0१२-29 Friday)