न देवी प्रकरणम् (“Not” Devi Episode)

न्यूयोर्कनगरे भारतीयदूतावासस्य न देवी इति कार्यकर्ता संयुक्तराज्येन सीमा-आज्ञापत्रस्य कपटाय अस्मिन् मासे आरोपिता। भारतीय-संसदसदस्याः अस्मिन् प्रकरणे उच्चस्वरेण संयुक्तराज्यस्य भर्त्सनां कुर्वन्ति। अहं स्मरामि नचिरे तैः एव संयुक्तराज्यं प्रार्थितं नरेन्द्रमोदीवर्यं संयुक्तराज्यस्य सीमा-आज्ञापत्रं न ददातु इति। ते अकथयन् अस्माकं न्यायव्यवस्था अपूर्णा अस्ति तस्मात् वयं नरेन्द्रमोदीवर्यं दण्डं दातुं असमर्थाः स्मः किन्तु भवताम् राज्यव्यवस्था पूर्णा अस्ति तस्मात् भवन्तः एव न्यायं कुर्वन्तु नरेन्द्रमोदीवर्यं दण्डं ददतु इति। ते एव सदस्याः अधुना कथयन्ति संयुक्तराज्यस्य न्यायव्यवस्था त्रुटिमया अस्ति। कथम् एतत्।

२०१३-१२-२५ बुधवासरः (2013-12-25 Wednesday)

One thought on “न देवी प्रकरणम् (“Not” Devi Episode)

  1. धर्मन्यायादयः केवलं स्वसौख्याय अनुचरणीयाः इति मन्यन्ते एते जनाः । एतादृशाः अन्तर्देशसंबन्धेषु वा स्वजीवने वा कोऽपि सिद्धान्तं न विजानन्ति । न कोऽपि सिद्धान्तं अनुचरन्ति । हा धिक् ।

    Like

Leave a reply to Srinivasa Cancel reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.