शक् अनिट् धातुः (To be able – not it – root)

सः गन्तुं न शक्ष्यति।
शक् + ल्युट् = शकन (अपि शकनम् इति प्रयोगः अस्ति?)
शक् + क्त = शक्त, शक् + क्तवतु  = शक्तवत्, शक् + क्त्वा = शक्त्वा। अत्र इडागमः न भवन्ति।
शक् + तुमुन् = शक्तुम्, शक् + तव्यत् = शक्तव्य, शक् + तृच्=  शक्तृ।
विवरणाय कृपया पठतु – व्यावहारिकं पाणिनीयम् इति श्री-अरविन्दाश्रमेण प्रकाशितं पुस्तकम्।
यदि अत्र दोषाः सन्ति तर्हि पण्डिताः सूचयन्तु।

२०१२-०६-२३ शनिवासरः (2012-06-23 Saturday)

7 thoughts on “शक् अनिट् धातुः (To be able – not it – root)

  1. शक्लृ शक्तौ – क्र्यादिः –

    शक्नोतीति शक्तः। शक्तिः, शक्यः, शक्या इत्यादयः प्रसिद्धाः प्रयोगाः।

    अन्यत्राप्रयोग एव।

    अयं प्रयोगः वक्तुं शक्यः। इदं वक्तुं शक्यम्। इदं कर्तुमहं शक्तः, शक्नोमि इत्यादयः प्रयोगाः।

    Like

    1. क्षमां याचे – शक्लृ शक्तौ इति धातुः स्वादिः, न क्र्यादिः।

      शक्नोति – गन्तुं शक्नोति, शक्तो भवति, शक्ता – शक्तासि, इत्यार्धधातुकविषये उदाहरणम्।

      शक्ष्यति, अशक्ष्यत्,

      इमे प्रयोगा वक्तुं शक्या इत्याद्याश्च प्रयोगाः साधवः। अयं केवलो धातुरकर्मक इति कर्मणि प्रत्ययो न भवति।

      अहं शक्नोमि, एतत् कर्तुं अहं शक्तः इत्येव। अहं शक्तवान् इत्यादयः दृष्टवानित्यादिषु सकर्मकस्थलेषु प्रयुज्यन्ते, न पुनरकर्मकेषु। गच्छतिस्तु सकर्मकः, गत्यर्थस्य गन्तव्यदेशस्यैव कर्मत्वात्, गतवान्, मया ग्तो देशः इत्यादयः।

      Like

  2. Sir, I don’t know samskrit to talk. I visit here only to learn few words of samskritam. Please pardon my audacity . But in Himanshu sir’s post = sah gantum na shaAKSHYATI = is that a speeling mistake ? I mean would that be shaKYATI instead of shakSHYATI .
    Thanks very much

    Like

      1. स्वादिगणपठितस्य शक्ष्यति इति भविष्यति, वर्तमाने लटि, शक्नोति इत्येव रूपम्। न तु शक्यति इति।

        दिवादिगणपठितस्य तु – शक्यते इति रूपम्। अस्य भविष्यति, शक्ष्यते, अशक्ष्यत इत् च रूपाणि।

        Like

    1. Please specify why do you feel it is a “speeling” mistake like that you have done in English you use and how did you decide “shaKYATI ” would be the correct one?

      Like

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.