निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

अमुष्य (Of That)

किमिदं किमस्य रूपं कथमिदमुदभूदमुष्य को हेतुः।
इति न कदापि विचिन्त्यं चिन्त्यं मायेति धीमता विश्वम्॥
What is this? What is its form? From where is it born? What is its cause? This should never be thought, the wise think that this world is Maya.
इदमुदभूदमुष्य -> इदं उद् अभूत् अमुष्य।
अदस् (पुल्ँलिङ्गः) (That)
असौ अमू अमी
अमुम् अमू अमून्
अमुना अमूभ्याम् अमीभिः
अमुष्मै अमूभ्याम् अमीभ्यः
अमुष्मात् अमूभ्याम् अमीभ्यः
अमुष्य अमुयोः अमीषाम्
अमुष्मिन् अमुयोः अमीषु

२०२०-०१-१८ शनिवासरः (2020-01-18 Saturday)

मतुबर्थाः प्रत्ययाः (Affixes showing possession)

मतुबर्थाः एकचत्वारिंशत् प्रत्ययाः सन्ति। मतुबर्थप्रत्यायानां सूत्राणां क्रमे आदिमः सूत्रोऽस्ति – तदस्यास्त्यस्मिन्निति मतुप् (५.२.९४)। अनेन सह मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९), झयः (८.२.१०) इत्येते सूत्रे स्मर्तव्ये।
बुद्धिमत् सुँ बुद्धिमान् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्यनेन सकारस्य लोपः, उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इति सूत्रेण नुमागमः, अत्वसन्तस्य चाधातोः (६.१४) इत्यनेन उपधायाः दीर्घत्वम्)।
बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः
बुद्धिमन्तम् बुद्धिमन्तौ बुद्धिमतः
बुद्धिमता बुद्धिमद्भ्याम् बुद्धिमद्भिः
बुद्धिमते बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
बुद्धिमतः बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
बुद्धिमतः बुद्धिमतोः बुद्धिमताम्
बुद्धिमति बुद्धिमतोः बुद्धिमत्षु
हे बुद्धिमन् हे बुद्धिमन्तौ हे बुद्धिमन्तः
वायुमान्, पितृमान्, गोमान्।
किम् मतुप् सुँ किंवान्, शमीवान्, लक्ष्मीवान्, वृक्षवान्, मालावान्, (मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९))।
पयस्वान्, भास्वान्, विद्युत्वान् (झयः (८.२.१०))।

२०२०-०१-०७ मङ्गलवासरः (2020-01-07 Tuesday)

हल् लुप्यते (The consonant disappears)

हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्॥६.१.६८॥
लोपो व्योर्वलि॥६.१.६६॥ इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः भवति तस्मात् सम्पूर्णसूत्रमस्ति –
दीर्घात् हल्-ङी-आब्भ्यः सु-ति-सि-अपृक्तम् हल् लोपः।
बाला कुमारी ज्योतिः अहन् मनः वारि नाम धनुः।
अत्र लोपः इति वस्तुतः लुप्यते इति पठितव्यम्। अन्येषु सूत्रेषु यस्य लोपः भवति तत् षष्ठीविभक्तौ अस्ति किन्तु न अत्र तस्मात् हल् लुप्यते इति। यत् हल् सुतिसेः अस्ति तस्य लोपः भवति। सुतिस्यपृक्तम् इति षष्ठीतत्पुरुषसमासः सुतिसेः अपृक्तम्।
अन्यं सूत्रमस्ति संयोगान्तस्य लोपः॥८.२.२३॥ तस्मात् हलन्तशब्देषु हलात् सुँ इत्यनेन स् इत्यस्य लोपः भवितुं शक्यते किन्तु अनेन सूत्रेण राजा इत्यादीनि रूपाणि न भविष्यन्ति तस्मात्॥६.१.६८॥ इत्यस्मिन् सूत्रे हल् इत्यपि अस्ति।

संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति।
रात्तु तेर्नैव लोपः स्याद् हलस्तस्माद्विधीयते॥काशिका॥

२०१९-०७-२७ शनिवासरः (2019-07-27 Saturday)

भृष्टः (Roasted)

मह्यं भृष्टाः भल्लातकाः (cashew-nuts) अतीव रोचन्ते।

भृष्टः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
भ्रस्ज् [भ्रस्जँ पाके] तुदादि: उभयपदी अनिट् सकर्मकः अदित्
भ्रस्ज् क्त (क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
भ्रस्ज् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
भृस्ज् त (ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६))
भृज् त (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
भृष्ट (ष्टुना ष्टुः (८.४.४१))
भृष्ट सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
भृष्ट स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
भृष्टः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-२० शनिवासरः (2019-07-20 Saturday)

मम मनसि संशयः आसीत् यतो हि अयं क्रमः सम्यगस्ति।
भृज् त् (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
(स्कोः संयोगाद्योरन्ते च (८.२.२९)) इत्यनेनसूत्रेणभ्रस्ज इति धातोः भृज् इति भवति तस्मात् कथं (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६)) इत्यिदं सूत्रं कथं संभवति?

डॉभट्टमहाभागेन अस्मात् तस्य संशयस्य निवारणम् अकरवम्।
छिन्नेऽपि पुच्छे श्वा चैव न चाश्वो न च गर्दभः इति न्यायः। एकदेशविकृतमनन्यवत् इति परिभाषा।

यं प्रति कोपः तत् सम्प्रदानसंज्ञम् (On whom anger in dative case)

क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः॥१.४.३७॥
मम द्वितीया सदैव मह्यं क्रुध्यति। स्वीकरोम्यहं गृहकार्यं न करोमि अन्यान्यकरणीयानि कार्याणि करोमि च। पुनः चिन्तनं कृत्वा मन्ये अत्र सम्प्रदानकारकं नोचितं यतो हि सा न कोपेन क्रुध्यति। मम द्वितीया सदैव मम क्रुध्यति। (शेषे षष्ठी।)
क्रुधद्रुहोरुपसृष्टयोः कर्म॥१.४.३८॥
मम द्वितीया मामभिक्रुध्यति।

२०१९-०७-०६ शनिवासरः (2019-07-06 Saturday)

पुंलिङ्गः (Masculine Gender)

पुल्ँलिङ्गः – पुल्ँलिङ्गः प्रथमाविभक्तिः एकवचनम्
पुम्स् लिङ्ग
पुंस् लिङ्ग (नश्चापदान्तस्य झलि (८.३.२४))
पुं लिङ्ग (संयोगान्तस्य लोपः (८.२.२३))
पुल्ँ लिङ्ग (अनुस्वारस्य ययि परसवर्णः (८.४.५८))
पुल्ँ लिङ्ग/पुंलिङ्ग (वा पदान्तस्य (८.४.५९))
पुल्ँलिङ्ग/पुंलिङ्ग सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
पुल्ँलिङ्ग/पुंलिङ्ग स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
पुल्ँलिङ्गः/पुंलिङ्गः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-०३ बुधवासरः (2019-07-03 Wednesday)