निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

गीताजयन्तीमहोत्सवः (Gita Jayanti)

अद्य ८देसम्बर२०१९तिथौ गीताजयन्तीमहोत्सवो मोक्षदायिनी एकादशी च अस्ति। अनेनोत्सवेन दिष्ट्या वर्धन्ते भवन्तः।
अस्मिन्नवसरे मया On the Episode of the Mahabharata Known by the Name Bhagavad-Gita by Georg Wilhelm Friedrich Hegel (in Hegel’s India: A Reinterpretation, with Texts, Aakash Singh Rathore and Rimina Mohapatra, Oxford University Press, 2017) इति निबन्धः पठितः।

278px-Georg_Wilhelm_Friedrich_Hegel00
Georg Wilhelm Friedrich Hegel (Courtesy Wikipedia)

अयं चतुश्चत्वारिंशतपृष्ठनिबन्धः हेम्बोल्टमहाभागस्य गीतानुवादस्य साहाय्येन गीतायां उपरि हेगेलमहाभागस्य चिन्तनमस्ति। अनुवादं विहाय हेगेलवर्यः सेलब्रूकमहाभागस्य लेखानां साहाय्यं केषाञ्चित् ब्रिटिशजनानां मौखिकवर्णनामाधारं च स्वीकरोति। मौखिकवर्णनानि असत्यमेव सन्ति किन्तु अनुवादः सेलब्रूकमहाभागस्य विवरणं यथातथ्यं प्रतीयते। तस्मात् तस्य निबन्धः गौरवमर्हति।

हेगेलवर्यः मन्यते कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इत्यस्मिन् अन्येषु श्लोकेषु च यत्र कथं किं कर्म कर्तव्यम् इत्यस्य चर्चा अस्ति तत्र यस्य यस्मिन् वर्णे जन्म अभवत् तेन तस्य वर्णस्य कर्माणि कर्तव्यानि इत्यर्थैवास्ति। केषु केषु च वर्णेषु कानि कानि च कर्माणि सन्ति ते भिन्नासु स्मृतिषु दत्तानि सन्ति।
हेगेलमहाभागाः मन्यन्ते यत् किमपि हिन्दवः मन्यन्ते तत् सर्वं कल्पितमेव न तु प्रकृतिं पुरुषं च समीक्ष्य चिन्तनेन रचितम् इति।

अन्ते सः मन्यते विषयः विषयी एकत्वं किमपि आधारं विना मोघचिन्तनमेव अस्ति।
निबन्धे नैके प्रसङ्गाः सन्ति ये मया पूर्वं न ज्ञातम्। स्वस्य मतस्य समर्थने सः विस्तरेण वसिष्ठविश्वामित्रयोः द्वेषस्य कथां व्याख्याति। तस्मात् सः दर्शयति कथं क्षत्रीयः विश्वामित्रममहाभागः ब्रह्मर्षिः भवितुं प्रयासमकरवम्। अनेकसहस्रेण वर्षेण तपश्चर्यं कृत्वा सः ब्रह्मर्षये अकल्पत। वाल्मिकिर्ब्रह्मोऽवतार आसीत् तथापि सः ब्राह्मणेन सदृशो नाभवत् इत्यपि सः उद्धरति।

निबन्धः रोचकोऽस्ति। हेगेलवर्येण हिन्दवः प्रसभं भर्त्सिताः तस्मात् ज्ञातुमिच्छामि अयं महान् दार्शनिकः केन आधारेण अस्मान् भर्त्सयते इति।

भाषाशास्त्रम् (Philology)

ह्यः मया इदं शोधपत्रम् पठितम्। Future Philology? The Fate of a Soft Science in a Hard World, Sheldon Pollock, Critical Inquiry, Vol. 35, No. 4, (Summer 2009), pp. 931-961.
शोधपत्रं गतद्विशतत्रिशतानां वर्षाणां भाषाशास्त्रविषयस्य विवरणमस्ति। तत्र भारतीयानां भाषाशास्त्रिणां विवरणमस्ति तदपि न केवलं संस्कृतभाषायाः किन्तु कन्नड-हिन्दी-इत्यादीनामन्यासां भाषाणाम् च।

kumaril-bhatta-original-imaf9z4a9xzdkvkqशोधपत्रे भाषाशास्त्रस्य भिन्नाः परिभाषाः समाकलिताः सन्ति (i) the knowledge of what is known; (ii) the awareness of peoples’ languages and deeds; (ii) the act of reading slowly; (iv) close reading; (v) historical-grammatical and textual criticism; (vi) the language of the book of humanity.

पत्रे चर्चास्ति किमर्थं भाषाशास्त्रमधीतव्यम् इति। लिखितमस्ति भारते स्वतन्त्रतापूर्वं भाषाशास्त्रे प्रगतिः भवति स्म किन्तु तद्परं तस्य पतनमेव भवति कदाचित् तस्मात् पतनात् न कदापि उत्थानं सम्भवति। तत्तु दुःखदायकमस्ति किन्तु श्रीशेल्डनमहाभागाः जवाहरलालमस्य पतनस्य कारणं मन्यन्ते तद् सुखदायकमस्त्येव।
शोधपत्रे लिखितमस्ति यावत् अस्माकं कालेभ्यः दूरवर्तिनी भाषास्ति तावत् भाषाशास्त्रस्य अधिकमुपयोगोऽस्ति। कालान्तरस्य उपयोगस्य च विलोमः सम्बन्धोऽस्ति। निकटवर्तिनः कालस्य भाषाभ्यां भाषाशास्त्रस्य उपयोगो नास्त्येव।

ऐतिहासिकं भाषाशास्त्रस्य त्रयः प्रभागाः सन्ति – textual meaning परमार्थिकः; contextual meaning व्यावहारिकः; भाषाशास्त्रिणः अर्थः। न जाने लेखकः कथं textual meaning इत्यस्य परमार्थिकः इति अनुवादः करोति।

अन्ते शोधपत्रे लिखितमस्ति राजनैतिकभाषाशास्त्रस्य अवसानं तदाभवत् यदा श्रीएडवर्ड-सईदवर्येण उद्घोषितं सर्वं भाषाशास्त्रं हरितप्रदेशेण (by Europe) उपनिवेशनीतये एव आविष्कृतम् इति।

शोधपत्रे पठिते मां प्रतिभाति भाषाशास्त्रं व्यापकः विषयः अस्ति किन्तु संस्कृतं तस्मिन् विषये मूर्धनि तिष्ठति इति।

२०१९-१२-०८ रविवासरः (2019-12-08 Sunday)

देव्यः गताः (The Queens Went)

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम्॥उत्तररामचरितम् १.३॥
रामस्य मातरः देव्यः वसिष्ठाधिष्ठिताः अरुन्धतीं पुरस्कृत्य जामातुराश्रमम् यज्ञे गताः।
The mothers of Ram, the queens, under the protection of Vasistha, keeping Arundhati in the front, went to the ashram of their son-in-law for a yagna.
जामाता अत्र दशरथस्य कन्यायाः पतिः ऋष्यशृङ्गः इति। मया न ज्ञातं दशरथस्य दुहिताप्यसीत्।
अत्र यज्ञे इति सप्तमी वर्तते निमित्तात्कर्मयोगे सप्तमी इति वार्तिकेन अथवा यज्ञे सति इत्यर्थे।
अत्र गता इति क्तः प्रयोगोऽस्ति तथापि कर्ता प्रथमाविभक्तावस्ति। कथम्? गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इति सूत्रेण। अनेन सूत्रेण गतिवाची क्तप्रत्ययः कर्मणि कर्तरि भावे च भवति। अस्मिन् श्लोके तथा गताः कर्तर्यस्ति।
आचार्येणोत्तररामचरितं पठ इति निर्दिष्टोऽहमस्मि। केनापि मम शुभचिन्तकेनोत्तररामचरितं पुस्तकं मह्यं दत्तं तस्मादाचार्यस्य निर्देशनस्याचरणं सुशकमभवत्। ताभ्यां धन्यवादो व्याहरामि।

२०१९-११-२५ सोमवासरः (2019-11-25 Monday)

अष्टगणाः (Eight Groups)

अक्षराणि द्विधानि भवन्ति गुरुः (१) वा लघुः (०)। त्रयाणामक्षराणां समूहो गण इति कथ्यते। द्विधत्वात् गणा अष्टविधा भवन्ति यतो हि द्वि गुणितं द्वि गुणितं द्वि इत्यष्ट भवति 2 x 2 x 2 = 8.
गणानां नामानि सन्ति भ ज स य र त म न इति। अहममन्ये न कदापि गणानां कण्ठस्थीकरणं पारयामीति किन्तु पश्यन्त्वयं श्लोकः। अनेन श्लोकेन या गणां न स्मर्तुमिच्छन्ति ता अप्येकं वारं श्लोकं ध्यात्वा गणान् न विस्मरिष्यन्ति।
आदिमध्यावसानेषु भजसा यान्ति गौरवम्।
यरता लाघवं यान्ति मनौ तु गुरुलाघवम्॥
भ १०० य ०११ यगणः भगणस्य विपर्यासः अस्ति।
ज ०१० र १०१ रगणः जगणस्य विपर्यासः।
स ००१ त ११० तगणः सगणस्य विपर्यासः।
म १११ न ००० नगणः मगणस्य विपर्यासः।

२०१९-११-२० बुधवासरः (2019-11-20 Wednesday)

शिष्टाम् (They two should govern)

तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे।
नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव॥मालविकाग्निमित्रम् ५.१३॥
शीतोष्णकिरणौ शीतकिरणः (the moon) उष्णकिरणः (the sun) च।
शिष्टाम् इति लोट्लकारः प्रथमपुरुषः द्विवचनम्। शासुँ अनुशिष्टौ अदादिगणीयः परस्मैपदी धातुः।
शास् + ताम् इत्यस्य शास इदङ्हलोः (६.४.३४) इति सूत्रेण आतो इदादेषो भवति शिष्टाम् इति।
तौ (भ्रातरौ the two brothers Yajnasena and Madhavasena) शिष्टाम् (should govern), तौ के शिष्टाम्, वरदानद्याः द्वे कूले (द्वितियाविभक्तिः द्विवचनम्) शिष्टाम्। एकः भ्राता उत्तरकूलं (north bank) शास्तु अन्यः भ्राता दक्षिणकूलं शास्तु। कथम्। यथा शीतकिरणः रात्रिं शास्ति उष्णकिरणः दिवसं शास्ति तथा।
अयं श्लोक आचार्येणास्माकं लाभाय लक्षितः।

२०१९-११-१७ रविवासरः (2019-11-17 Sunday)

अहं तत् पुस्तकं प्रभवामि (I have that book.)

आङ्ग्लभाषायाः I/You have, he/she/it has something इत्यस्य संस्कृतेऽनुवादो न सुशकः। हिन्दीभाषायां मेरे पास है इत्यनेनायमर्थो व्याख्यायते। संस्कृतेऽपि मम मां वा समीपं निकषा वा पुस्तकमस्ति इति कथ्यते। मन्येऽयमर्थोऽहं तत् पुस्तकं प्रभवामि अथवा अहं तत् पुस्तकमधितिष्ठामि इत्याभ्यामपि कथयितुं शक्यते।
साहित्ये अस्याः विवक्षायाः नैकानि वाक्यानि भवन्त्येवेति। हे पण्डिताः स्मरन्ति चेत् कृपया सूचयन्तु।

२०१९-११-१६ शनिवासरः (2019-11-16 Saturday)