कारणमुच्यते (Is said to be a means)

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते॥गीता ६.३॥
अन्वयः – योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते। योगारूढस्य तस्य (मुनेः) शमः कारणम् उच्यते।
मया चिन्तितं अत्र षष्ठ्याः विभक्त्याः किं प्रयोजनम् इति। रामानुजाचार्यः व्याख्याति योगं आरुरुक्षोः मुनेः इति योगम् आत्मावलोकनं प्राप्तुम् इच्छोः मुमुक्षोः मुनेः इति। जिसकी योग को प्राप्त करने की इच्छा हो उस मुनि का। मुनेः किम्? मुनि का क्या? शङ्कराचार्यः लिखति कर्म कारणं साधनम् उच्यते इति। कारणं साधनमित्यर्थे प्रयुक्तः तद् ज्ञाते मया अस्य श्लोकस्य अर्थः प्राप्तः। सन्तुष्टोऽस्मि।
तस्मादेव योगारूढस्य शमः सर्वकर्मभ्यो निवृत्तिः (जो योग को प्राप्त हो चुका है उसकी कर्म निवृत्ति) कारणं साधनम् उच्यते।

२०१९-०९-१६ सोमवासरः (2019-09-16 Monday)

Advertisements

किं लिङ्गम् (Which gender?)

प्रायः विस्मरामि व्याकरणेषु प्रयुक्तानां शब्दानां लिङ्गम्। तस्मात् अत्र ते शब्दाः सर्वनामयोगेन स्थापिताः सन्ति। आशासे योगेन स्मरणाय लाभः भविष्यति।
सः शब्दः। सः वर्णः। सः प्रत्ययः। सः स्वरः। कः पुरुषः। कः लकारः।
इदं वाक्यम्। इदमव्ययम्। इदं प्रातिपदिकम्। इदं पदम्। इदं व्यञ्जनम्। किं वचनम्। किं लिङ्गम्।
का विभक्तिः।
इदं कारकम्। षट् कारकानि सन्ति – कर्ता, कर्म, करणम्, सम्प्रदानम्, अपादानम्, अधिकरणम्।
कर्त्ता कर्म च करणं च सम्प्रदानं तथैव च।
अपादानाधिकरणे चेत्याहुः कारकाणि षट्॥
सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
व्येति = वि एति (goes away)। न व्येति (stays)। इण् गतौ तस्मात् एति एकवचनं प्रथमपुरुषः लट्लकारः।

२०१९-०९-१३ शुक्रवासरः (2019-09-13 Friday)

आह्वानमागतम् (A call came)

In the meantime the Brahmana received an invitation from the king to receive the presents to be given on the occasion of the Parvana Shraddha.
मम अनुवादः – तदा सः ब्राह्मणः राज्ञः श्राद्धपर्वणि उपहारं ग्रहणाय आमन्त्रणं प्राप्नोत्।
हितोपदेशे – अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वानमागतम्।
अहं इच्छामि हितोपदेशे पञ्चतन्त्रे च यथा संस्कृतभाषा अस्ति तथा संस्कृतभाषामहमपि लिखेयम्। तस्मात् यथा मम मतिः अस्ति तस्य हितोपदेशस्य भाषाया सह तुलनां करोमि। पश्यतु कथं हितोपदेशस्य भाषा मनोहारिणी अस्ति।

२०१९-०८-२५ रविवासरः (2019-08-25 Sunday)

कान्तिः हिमांशोरिव (Splendour like the moon)

यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यम् रिपुमन्दिरेषु॥६-४७ रघुवंशम्॥
In whose house (the house of king Sushena) there was a lustre pleasing to the eyes like that of the moon. (But) His unbearable (sun-like) heat caused grass shoots to grow on the rooftop of the palaces in the city of his enemies.
अपि इव इत्यस्य संयोगे षष्ठी विभक्तिः भवति? हिमांशोः इति षष्ठिविभक्तौ अस्ति।

२०१९-०७-२९ सोमवासरः (2019-07-29 Monday)

भृष्टः (Roasted)

मह्यं भृष्टाः भल्लातकाः (cashew-nuts) अतीव रोचन्ते।

भृष्टः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
भ्रस्ज् [भ्रस्जँ पाके] तुदादि: उभयपदी अनिट् सकर्मकः अदित्
भ्रस्ज् क्त (क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
भ्रस्ज् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
भृस्ज् त (ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६))
भृज् त (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
भृष्ट (ष्टुना ष्टुः (८.४.४१))
भृष्ट सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
भृष्ट स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
भृष्टः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-२० शनिवासरः (2019-07-20 Saturday)

मम मनसि संशयः आसीत् यतो हि अयं क्रमः सम्यगस्ति।
भृज् त् (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
(स्कोः संयोगाद्योरन्ते च (८.२.२९)) इत्यनेनसूत्रेणभ्रस्ज इति धातोः भृज् इति भवति तस्मात् कथं (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६)) इत्यिदं सूत्रं कथं संभवति?

डॉभट्टमहाभागेन अस्मात् तस्य संशयस्य निवारणम् अकरवम्।
छिन्नेऽपि पुच्छे श्वा चैव न चाश्वो न च गर्दभः इति न्यायः। एकदेशविकृतमनन्यवत् इति परिभाषा।

तीर्णः (Crossed)

तीर्णस्त्वं सर्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि। वह्निपुराणे।

तीर्णः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
तॄ [ तॄ प्लवनतरणयोः] भ्वादि: परस्मैपदी सेट् सकर्मकः
तॄ क्त (क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
तॄ त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
तिर् त (ॠत इद्धातोः (७.१.१००), श्र्युकः किति (७.२.११))
तीर् त (हलि च (८.२.७७))
तीर्ण (रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२), रषाभ्यां नो णः समानपदे (८.४.१))
तीर्ण सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
तीर्ण स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
तीर्णः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-१८ गुरुवासरः (2019-07-18 Thursday)

हीनः (without, defective)

महाभारते शान्तिपर्वणि पञ्चषट्यधिकशततमोऽध्याये (१६५)
यज्ञश्चेत् प्रतिरुद्धः स्यादंशेनैकेव यज्वनः।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि॥६॥
यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः।
कुटुम्बात् तस्य तद् वित्तं यज्ञार्थं पार्थिवो हरेत्।७॥
यदि धर्मात्मा राजाके रहते हुए किसी यज्ञकर्ताका, विशेषतः ब्राह्मणका यज्ञ धनके बिना अधूरा रह जाय – उसके एक अंश की पूर्ति शेष रह जाय तो राजा को चाहिये कि उसके राज्य में जो बहुत पशुओं तथा वैभवसे सम्पन्न वैश्य हो यदि वह यज्ञ तथा सोमयागसे रहित हो तो उसके कुटुम्बसे उस धनको यज्ञके लिये ले लें। गीताप्रेस गोरखपुर इत्यस्य अनुवादः।
ओँहाक् क्त सुँ हीनः (घुमास्थागापाजहातिसां हलि (६.४.६६) ओदितश्च (८.२.४५))
ओँहाङ् क्त सुँ हानः यतो हि घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्मिन् सूत्रे जहाति अस्ति तस्मात् अयं सूत्रः ओँहाक् इत्यस्मै एव अस्ति। अत्र ओदितश्च (८.२.४५)) इत्यस्य प्रसक्तिः अस्ति।
हा [ ओँहाक् त्यागे ] जुहोत्यादि: परस्मैपदी अनिट् सकर्मकः ओदित् कित्
हा [ ओँहाङ् गतौ ] जुहोत्यादि: आत्मनेपदी अनिट् सकर्मकः भृञादिः ओदित् ङित्

२०१९-०७-१५ सोमवासरः (2019-07-15 Monday)