उत्पद्यते (arise, originate, to be born or produced)

पद्  [ पदँ गतौ ] दिवादि: आत्मनेपदी अनिट् सकर्मकः अदित्

 

उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः। Desires of the poor arise and disappear.
उदपादि चास्य मनसि। It occurred to his mind.
युद्धमुत्पत्स्यते महत्। A great war will arise.
उत्पन्नावसरमर्थित्वम्। For which an occasion has presented itself.
उत्पद्यते यदि ज्ञानं क्रमशोऽर्थान् प्रतीत्य ज्ञानिनः।
तन्नैव भवति नित्यं न क्षायिकं नैव सर्वगतम्॥
क्षायिकम् annihilation of the desire of being active Jain
प्रतीत्य recognised

२०१९-०४-१८ गुरुवासरः (2019-04-18 Thursday)

Advertisements

आचष्टे (He speaks)

गोमन्तम् आचष्टे गवयति, गुणवन्तम् आचष्टे गुणयति, स्रग्विणम् आचष्टे स्रजयति, अन्तिकम् आचष्टे नेदयति, बाढम् आचष्टे साधयति।
अद्यतनीयां वार्तायाम् आसीत् – रफाल-विषयम् आलक्ष्य प्रधानमन्त्रिणि टिप्पणीं आचक्षिताय राहुलाय न्यायालयेन सम्प्रेषितं समाह्वानम्।
चक्ष्  [ चक्षिँङ् व्यक्तायां वाचि ]अदादि: आत्मनेपदी सेट् सकर्मकः इदित् ङित्

लट् ( आत्मनेपदम् )

चष्टे चक्षाते चक्षते
चक्षे चक्षाथे चड्ढ्वे
चक्षे चक्ष्वहे चक्ष्महे

२०१९-०४-१६ मङ्गलवासरः (2019-04-16 Tuesday)

प्राञ्जलः मार्गः (Straight Road)

रामपुरतः यदा लक्ष्मणपुरम् आगमिष्यति तदा द्विसहस्रमानं परम् एकं वर्तनम् (turn) अस्ति किन्तु तस्मिन् वर्तने न प्रवर्तितव्यं प्राञ्जले मार्गे एव वर्तितव्यम्। अवक्रः मार्गः एव लक्ष्मणपुरं नयति।

२०१९-०४-०८ सोमवासरः (2019-04-08 Monday)

क्रान्तिः (The sun’s course on the elliptic)

यस्मिन् अर्थे क्रान्तिः इति हिन्दीभाषायां उपयुज्यते तस्मिन् अर्थे संस्कृतभाषायां न उपयुज्यते। हिन्दीभाषायां क्रान्तिः इति revolution किन्तु संस्कृतभाषायां सर्वे अर्थाः प्रायः ज्योतिषस्य विषयेषु एव सन्ति।

२०१९-०३-२५ सोमवासरः (2019-03-25 Monday)

वटिका (Vada)

वटिका इति शब्दस्य कल्पद्रुमे इदं सुन्दरं वर्णनम् अस्ति।

वटिका वटिका, स्त्री, (वटिरेव . स्वार्थे कन् . टाप् .)वटी . वडी इति भाषा . तत्पर्य्यायः . निस्तली२ . इति शब्दचन्द्रिका .. अथ वटिकाविधिः .“ वटका अथ कथ्यन्ते तन्नामा वटिका वटी .मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ..लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा .गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ..” तत्र वह्निसिद्धे गुडादौ .“ कुर्य्यादवह्रिसिद्धेन क्वचिद्गुग्गुलुना वटीम् .द्रवेण मधुना वापि गुटिकां कारयेद्बुधः ..सिता चतुर्गुणा देया वटीषु द्बिगुणो गुडः .चूर्णे चूर्णसमः कार्य्यो गुग्गुलुर्मधु तत्समम् ..” तत्समं चूर्णसमम् .“ द्रवन्तु द्विगुणं देयं मोदकेषु भिषग्वरैः ..” द्रवं चतुर्गुणमिति वा पाठः . द्रवं द्रवरूपं द्रव्यम् .“ कर्षप्रमाणा तन्मांत्रा बलं दृष्ट्वा प्रयुज्यते .बलमिति कालादेरप्युपलक्षणम् . इति भाव-प्रकाशः .. * .. व्यञ्जनोपयोगिद्रव्यम् . अस्यापिवडी इति भाषा . यथा, –“ माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता .तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ..तालितास्तप्ततैले ता अथवा सुप्रलेहिताः .घटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ..कुष्माण्डकवटी ज्ञेया पूर्ब्बोक्तवटीकागुणा .विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ..मुद्गानां वटिका तद्वद्रचिता साधिता तथा .पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ..” इति भावप्रकाशः ..

२०१९-०३-२२ शुक्रवासरः (2019-03-22 Friday)

प्रतिमुञ्चति (Wears)

प्रति + मुच् = पहनना (संस्कृत शिक्षण सरणी – आचार्य राम शास्त्री)।
प्रतिमुञ्चते बध्नाति आत्मनि धारयतीति सायणः (उपसर्गार्थचन्द्रिका – चारुदेवशास्त्री)।

अदाने कुरुते बुद्धिं दास्यामीत्यभिधाय यः।
स लोभपाशं प्रभ्रष्टमात्मनि प्रतिमुञ्चति।।
One who decides not to give, even after having promised to give, binds himself again with the noose of greed that had dropped off.  (Sudharma 8 April 2010)

२०१९-०३-०४ सोमवासरः (2019-03-04 Monday)

दुराधिः (Distress or Anxiety of Mind)

यदापि किमपि दुःखदं तथ्यं जानामि तदापि तदेव श्रुत्वा वा पठित्वा वा दृष्ट्वा वा दुराधयः पुनः मयि उत्पद्यन्ते।
दुराधयः मां वक्तुं व्यवसाययन्ति।

२०१९-०३-०१ शुक्रवासरः (2019-03-01 Friday)