पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनःपुनः।
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुस्वनैः॥महाभारते आदिपर्वणि संभवपर्वणि ७०.१०॥
विसृज् धातोः लङ्लकारप्रथमपुरुषः एकवचनम् इति व्यसृजन्।
व्यसृजन् + ते = व्यसृजंस्ते। नश्छव्यप्रशान् (८.३.७) इति सूत्रेण नकारस्य रुँ इति आदेशो भवति तत् परम् अनुनासिकात् परोऽनुस्वारः (८.३.४) सूत्रेण अनुस्वारः, खरवसानयोर्विसर्जनीयः (८.३.१५) विसर्जनीयस्य सः (८.३.३४) इत्याभ्यां रकारस्य सकारः भवति।।
स्पृशः – स्पृश् इत्यस्य प्रथमाविभक्तिः बहुवचनम्।
Touching the skies and resonating with the sweet chirping of the birds, they (the trees) let loose the many coloured rain of flowers again and again.
२०२०-१२-१२ शनिवासरः (2020-12-12 Saturday)