निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

निदिध्यासनम् (Profound and Repeated Meditation)

निदिध्यासनम् – नि + ध्यै + सन् . ततो भावे ल्युट्
ध्यै चिन्तायाम् भ्वादिः परस्मैपदी सकर्मकः अनिट्
ध्यै सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
ध्यै स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
ध्या स (आदेच उपदेशेऽशिति (६.१.४५))
ध्या ध्या स (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
धा ध्या स (हलादिः शेषः (७.४.६०))
ध ध्या स (ह्रस्वः (७.४.५९))
धि ध्या स (सन्यतः (७.४.७९))
दि ध्या स (अभ्यासे चर्च (८.४.५४))
नि दि ध्या स ल्युट् सुँ -> निदिध्यासनम् इति युवोरनाकौ (७.१.१) इत्यनेन।

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । – बृहदारण्यकोपनिषत् (२-४-५)
निदिध्यासनं, क्ली, (पुनः पुनरतिशयेन वा निध्यायतीति । नि + ध्यै + सन् । ततो भावे ल्युट् । ) पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा- कारिताया बुद्धेः स्वजातीयप्रवाहः । इति वेदान्तसारः
निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योपकृष्य आत्मविषयकस्थैर्य्यानुकूलो मानसो व्यापारः।

२०२०-०१-१५ बुधवासरः (2020-01-15 Wednesday)

सम्पर्कः (Contact)

अहं तेन सह सम्पर्कं करोमि। अहं कृष्णेन सह सम्पृणच्मि।
पृचीँ सम्पर्के रुधादिः परस्मैपदी सकर्मकः सेट् ईदित् हलन्तः चकारान्तः ऋदुपधः ऋकारोपधः
सं पृच् घञ् सुँ इति चजोः कु घिण्ण्यतोः (७.३.५२) इत्यनेन सम्पर्कः भवति।
सं पृच् क्त सुँ इति निष्टायामनिट इति वक्तव्यं इति वार्तिकेन सम्पृक्तः इति भवति। इदं वार्तिकं चजोः कु घिण्ण्यतोः (७.३.५२) इति सूत्रस्य वार्तिकमस्ति। श्वीदितो निष्ठायाम्। इतीडभावः।
वागार्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥रघुवंशम्॥

२०२०-०१-१० शुक्रवासरः (2020-01-10 Friday)

छात्राणां द्विशती याति (A group of two hundred students goes)

अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः (वार्तिकः)(२.४.१७)— छात्राणां द्विशती, त्रिशती, पञ्चशती वा याति। पण्डितानां पञ्चशती अत्र तिष्ठति। रामस्य वानरसैन्यानां द्विसहस्री आसीत्। मम पुस्तकानां त्रिशती अस्ति। (शत्, सहस्त्र इत्यादि के पहले द्वि, त्रि आदि के आने पर समाहार (समूह) द्विगु हो जाने से वे विशेषण नहीं रहते, क्योंकि समाहार द्विगु हो जाने पर वे विशेष्य पद हो जाते हैं।) – बृहदनुवादचन्द्रिका – चक्रधर नौटियाल हंस शास्त्री (पृष्ठम् नवनवतिः (९९))

मम प्रश्नोऽस्ति – अपि द्विशतं छात्राः यान्ति इति असाधुः प्रयोगोऽस्ति? तथैव पञ्चशतं पण्डिताः तिष्ठन्ति, रामस्य सेनायां द्विसहस्रं वानराः सन्ति, मम त्रिशतं पुस्तकानि सन्ति इत्यपि प्रयोगा असाधवः सन्ति?

भट्टमहाभागाः लिखन्ति –
उभयोऽपि प्रयोगौ साधू एव स्तः।
त्रयाणां शतानां समाहारः > त्रिशती। द्विगुः। त्रिगुणितं शतं त्रिशतम्। मध्यमपदलोपी तत्पुरुषः। एवमन्यत्रापि बोध्यम्।

२०२०-०१-०४ शनिवासरः (2020-01-04 Saturday)

शतेषु जायते शूरः (In several hundreds is born a warrior)

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा॥
One in hundreds a warrior is born, a pundit in one in thousands, an orator in one in ten-thousands, and a donor will be born or not (we don’t know).
शते जायते, शतयोः जायते, शतेषु जायते इति त्रिषु वाक्येषु को भेदः?
One in a thousand, one in two thousand, and one in several thousands is born इति भेदः।
तस्मात् यत् शतेषु तत् गणिते सहस्त्रेषु अप्यस्ति। In several hundreds, several thousands is included.
प्रायः यदि उनविंशतिः इति आरभ्य सङ्ख्या विशेषणमस्ति तर्हि एकवचने एव प्रयुज्यते किन्तु विशेष्यरूपे द्विवचनं बहुवचनमपि भवति। उनविंशतेः न्यूना सङ्ख्या विशेष्यरूपे न प्रयोक्तुम् शक्यते।

आचार्यरामशास्त्रिमहाभागस्य पुस्तकात् चितानि उदाहराणि –
सुरेन्द्रः शतेन रुप्यकैः कम्बलमक्रीणात्। जनको याज्ञवल्क्याय सहस्रं गाः प्रदात्। विक्रमदेवः लक्षस्य ग्रामाणामधिपतिर्बभूव। सेनापतिः सहस्राभ्यां (दो हजार) सैनिकैः शत्रौ प्रत्याक्रमणमकरोत्। भारते लक्षे (दो लाख) गावः बहुक्षीराः सन्ति।

२०२०-०१-०३ शुक्रवासरः (2020-01-03 Friday)

वाक्येषु कालसूचनम् (Indicating time in sentences)

कालाध्वनोरत्यन्तसंयोगे (२.३.५)
This conference will last for three days. इदं सम्म्लेलनं त्रीन् दिवसान् भविष्यति।
He stayed in Canberra for five days. सः केन्बरानगरं पञ्च दिवसान् अध्यवसत्।
It has been hot during the last three days. अत्र गतान् त्रीन् दिवसान् घर्मः वर्तते।
अपवर्गे तृतीया {२.३.६}
I studied in Bangalore for three years. अहं त्रिभिः वर्षैः बेङ्गलुरूनगरं अध्यैयि।
सप्तमीपञ्चम्यौ कारकमध्ये {२.३.७}
I am here since the last three days. अहमत्र त्रिभ्यः दिवसेभ्यः अस्मि।
My examinations are after four months. मम परीक्षा चतुर्भ्यः मासेभ्य अनन्तरमस्ति। मम परीक्षा चतुर्षु मासेषु अस्ति।
My last examination was seven months ago. मम गतपरीक्षा सप्तभ्यः मासेभ्यः पूर्वमासीत्।
She came here three months ago. सा अत्र त्रिभ्यः मासेभ्यः पूर्वमागच्छत्।

यतश्चाध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या (वार्तिकः) {२.३.२८}
The festival is three days from when we reach India. भारतम् अनुप्राप्तात् कालात् त्रिषु दिवसेषु उत्सवोऽस्ति।

This is a three day conference. इदं त्रिदिवसात्मकं सम्मेलनमस्ति।
They visit Canberra for six days in a month. ते मासस्य षण्णां दिवसानां केन्बरानगरे वर्तन्ते।

न अवस्यति (Does not complete)

सो [षो अन्तकर्मणि] इति दिवादिः परस्मैपदी सकर्मकः अनिट् धातुरस्ति।
न जाने कथं सः कार्यं न अवस्यति इति। स्यति इत्यस्य सिद्धये ओतः श्यनि (७.३.७१) इति स्मर्तव्यम्।

व्यवस्यति इति कार्ये व्यापृतोऽस्ति (busy or engaged).
अहो बत महत्पापं कर्तुं व्यवसिता वयम् (गीता १.४५)।
व्यवसो + क्त + सुँ = व्यवसितम्। अत्र द्यतिस्यतिमास्थामित्ति किति (७.४.४०) इति सूत्रं स्मर्तव्यम्।

व्यवसाययन्ति (makes (someone) engaged in work) इति णिजन्तरूपम्।
व्यवसाययामि यान् कार्येषु न ते व्यवस्यन्ति।
न मां व्यवसाययति तदापि व्यवसितोऽहम्॥

२०१९-१२-३० सोमवासरः (2019-12-30 Monday)