शृङ्गराहित्येन प्रहरणादावप्रवृत्तस्याश्वगर्दभादेः राजा अभूत् इति सायणभाष्ये १.३२.१५।
रहँ त्यागे भ्वादिः परस्मैपदी सकर्मकः सेट् + क्त + सुँ = रहितः।
२०२०-११-०१ रविवासरः (2020-11-01 Sunday)
Learn Sanskrit while blogging
शृङ्गराहित्येन प्रहरणादावप्रवृत्तस्याश्वगर्दभादेः राजा अभूत् इति सायणभाष्ये १.३२.१५।
रहँ त्यागे भ्वादिः परस्मैपदी सकर्मकः सेट् + क्त + सुँ = रहितः।
२०२०-११-०१ रविवासरः (2020-11-01 Sunday)
अपरिस्फुटनिस्वाने कुतस्त्येऽपि त्वमीदृशी।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठिता स्थिता॥उत्तररामचरितम् ३.७॥
स्तनयित्नोः मेघस्य निस्वाने मयूरी इव उत्कण्ठिता।
स्तनयित्नुः स्तन् शब्दे भ्वादिः परस्मैपदी अकर्मकः सेट् + इत्नुच्
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनि॑ च।
इन्द्र॑श्च॒ यद्यु॑यु॒धाते॑ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये॥ऋग्वेदः १.३२.१३॥
तन्यतुः गर्जनम् इति सायणाचार्यः।
तन्यतुः स्तनशब्दे यतुच् सलोपश्च गर्जिते इति वाचस्पत्यम्।
२०२०-१०-१९ सोमवासरः (2020-10-19 Monday)
सध्रयञ्च् + सुँ = सध्रयङ्
सध्रयञ्च् इति प्रातिपदिकस्य सध्रीचीनः इति सम्बन्धी अस्ति।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति इति भागवते ४.२९.३८
ज्यायस्यंतश्चित्तिनो मा वि यौष्ठ सं राधयंतः सधुराश्चरंतः॥
अन्यो अन्यस्मै वल्गु वदंत एत सध्रीचीनान् वः संमनसस्कृणोमी॥
सम्यङ्चः – सम्यङ्च् जस् – going together
सम् अञ्चुँ गतिपूजनयोः इत्यस्य समः समि (६.३.९३) इति सूत्रेण समि अञ्चुँ इति भवति। तस्मात्
सम्यङ् सम्यञ्चौ सम्यञ्चः
सम्यञ्चम् सम्यञ्चौ समीचः
समीचा सम्यग्भ्याम् सम्यग्भिः
समीचे सम्यग्भ्याम् सम्यग्भ्यः
समीचः सम्यग्भ्याम् सम्यग्भ्यः
समीचः समीचोः समीचान्
समीचि समीचोः सम्यक्षु
हे सम्यङ् हे सम्यञ्चौ हे सम्यञ्चः
भैमिव्याख्ययोपेतायां लघुसिद्धान्तकौमुद्यां हलन्त-पुल्ँलिङ्ग-प्रकरणे, पृष्ठम् ४४४।
मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा।
सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया॥अथर्ववेदः ३.३०॥
२०२०-१०-०९ शुक्रवासरः (2020-10-09 Friday)
नदं न सिन्धुमिव इति सायणाचर्यः। न उपमा इति मेदिनी।
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ ।
याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑ः पत्सुत॒ःशीर्ब॑भूव ॥ मण्डलम् १, सूक्तम् ३२, ऋक् ८ ॥
न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ ।
याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥
२०२०-०८-३१ सोमवासरः (2020-08-31 Monday)
भू सन् शतृ सुँ = बुभूषन्। अत्र सन्यङोः (६.१.९) इति सूत्रेण द्वित्वं तत् परं ह्रस्वः (७.४.५९) इति सूत्रेण उकारः, अभ्यासे चर्च (८.४।) इत्यनेन बकारः।
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
वृष्णो॒ वध्रि॑ः प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥ मण्डलम् १, सूक्तम् ३२, ऋक् ७ ॥
अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ ।
वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥
२०२०-०८-३० रविवासरः (2020-08-30 Sunday)
संहिता
यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒ः प्रोत मा॒याः ।
आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
विद् धातोः लिट्लकारस्य मध्यमपुरुषेकवचने विविदिषे इति रूपम् भवति।
एकं सूत्रमस्ति कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि (७.२.१३) इति। अनेन सूत्रेण कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति। यत् सायणाचार्य लिखति विदॢ लाभे क्रादिनियमात् प्राप्तः इट् व्यत्ययेन न भवति इति। अनेन मन्ये छन्दसि सर्वत्र लिटि इडागमः विकल्पेन भवति। इडागमे अभावे – वि विद् से – इत्यत्र चर्त्वं यस्मात् विवित्से।
२०२०-०८-०२ रविवासरः (2020-08-02 Sunday)
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥ऋग्वेदः मण्डलम् १, सूक्तम् ८९, ऋक् १॥
हर्षितोऽहं सायणाचार्यस्य भाष्यं पठित्वास्य मन्त्रस्यार्थमवगच्छम्। मन्य अप्रायुवः इत्यस्य सम्यगर्थं न बोधामि। सायणाचार्यः अप्रायुवः अप्रगच्छतः इति लिखति।
२०२०-०७-२९ बुधवासरः (2020-07-29 Wednesday)
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे पराऽवरे॥मुण्डकोपनिषद् २.८॥
तस्मिन् दृष्टे पराऽवरे सति सप्तमी तत्परं तदवरं च दृष्ट्वा हृदयग्रन्थिः स्वयमेव भिनत्ति सर्वसंशयाः स्वयमेव छिन्दन्ति कर्माणि स्वमेव क्षीणन्ति इति अर्थे। कर्मवत् कर्मणा तुल्यक्रियः (३.१.८७) इति सूत्रस्य अयं मनोहरः दृष्टान्तः।
२०२०-०७-१८ शनिवासरः (2020-07-18 Saturday)
यैः इमानि जालपत्राणि कल्पितानि तेभ्यः कलानिपुणेभ्यः संस्कृतज्ञेभ्यः नमः।
कृष्णमाचर्ययोगमन्दिरं योगवैशारदी Principal Yoga texts – https://kymyogavaisharadi.org
अद्वैतशारदा दक्षिणाम्नाय श्रीशारदापीठम्, शृङ्गेरी – https://advaitasharada.sringeri.net
सायणाचार्यस्य भाषया सह ऋग्वेदः – http://rigveda.sanatana.in/
वन्दे मातरम् – https://vmlt.in/
२०२०-०६-२७ शनिवासरः (2020-06-27 Saturday)
ऋग्वेदस्य प्रथममण्डलस्य प्रथमसूक्तस्य प्रथममन्त्रस्य सायणाचार्यस्य भाष्ये आगतानि इमानि वाक्यानि बोधामि तस्मात् हृष्यामि। तं हर्षं भवद्भिः सह विभाजयामि (भजँ विश्राणने चुरादिः उभयपदी सकर्मकः सेट्)।
शाकपूणिनामको निरुक्तकारो धातुत्रयादग्निशब्दनिष्पत्तिं मन्यते । इत इण् गतौ । धा २४-३६ । इति धातुः । अक्तोऽञ्जूव्यक्तिम्रक्षणकान्तिगतिषु । धा । २९-२१ । इति धातुः । दग्भो दह भस्मीकरणे । धा २३-२२ । इति धातुः नीतो णीञ् प्रापणे । धा २२-५ । इति धातुः । अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा। दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते। नीरिति नयतिधातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वाग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः ।