पञ्चतन्त्रं लब्धप्रणाशम् पृ. ४९४। (Panchatantra Sentences)

संस्कृतसम्भाषणं शिक्षणाय एतादृशानि वाक्यानि उच्चैः पठित्वा वदनस्य अभ्यासः कर्तव्यः। तेषां सदृशानि वाक्यानि च रचयितव्यानि।
तस्य भार्या प्राणेभ्योऽप्यतिप्रियासीत्। His wife was dear to him more than (his own) life.
सा अपि प्रेम कुर्वाणा न विश्राम्यति। She also didn’t tire of loving him.
तौ कुटुम्बस्य अतिपातमसहमानौ विप्रकृष्टं देशान्तरं गतौ। Unable to tolerate the interference of their family, the went to a far away place.
तृष्णा मां बाधते तदुदकं क्वाप्यन्वेषय। I am thirsty, find water from somewhere.
सा तस्य वाचं शृणोति।She listens to his words. वह उसकी बात सुनती है।
तिसृभिर्वाचाभिः स्वभोजनं दत्तम्। Pronouncing it three times, he gave his food (to her).
वाक्सममेव सा भोजनं गृह्णाति। As soon as the words were uttered,, she took the food.
पञ्चतन्त्रं लब्धप्रणाशम् पृ. ४९४।

२०२०-०२-१६ रविवासरः (2020-02-16 Sunday)

सा आहूता किन्तु तया सुप्तम् (She was called but she slept)

हूतानि भूतानि न श्रूयन्ते जागरितान्यपि।
हूताः सुप्ता योगिनः श्रूयन्त अनुक्रियन्ते च॥
वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण किति प्रत्यये सम्प्रसारणं भवति। किं नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (१.१.४५) यस्मात् अत्र य् -> इ, व् -> उ इति भवति।
वचिस्वपियजादि इति एकादश धातवः सन्ति वच् स्वप् यज् वप् वह् वस् वेञ् व्येञ् ह्वेञ् वद् श्वि।
वच् क्त -> उ अ च् त -> उ च् त अत्र सम्प्रसारणाच्च (६.१.१०८) इति सूत्रेण उकारस्य अकारस्य च एक्ः पूर्वादेशः उकारादेशः इति भवति, अन्ते चोः कुः (८.२.३०) इति सूत्रेण उक्त सुँ उक्तः इति रूपं सिद्ध्यते।
तथा क्त इति प्रत्यये यज् इष्टः, वप् उप्तः, वह् ऊढः, वस् उषितः, वे उतः, सम् व्ये संवितः, वद् उदितः, श्वि शूनः।
ह्वे क्त इति हु त भवति सम्प्रसारणात्। तत् परं हलः (६.४.२) इति सूत्रेण अङ्गस्य दीर्घः भवति तस्मात् हू त सुँ हूतः इति रूपं सिद्ध्यते।
किन्तु दीर्घत्वम् अङ्गस्य एव भवति तस्मात् स्वप् क्त सुँ सुप् त सुँ सुप्तम् इति भवति। अत्र उकारः अङ्गस्य नास्ति यतो हि उकारः पकारः परः अस्ति।

२०२०-०१-२८ मङ्गलवासरः (2020-01-28 Tuesday)

अनुवदति अनुवदते (Repeats)

वदँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् धातुरस्ति।
किन्तु कठः कलापस्य अनुवदते (People of kaTha branch follow the chanting of the kalaapa branch (of Veda)) इत्यस्मिन् वाक्ये अनुवदते इत्यामनेपदी अस्ति। कथमात्मनेपदी?
मया चिन्तितं कथमस्य समास्याया निराकरणं समाधानं वा करिष्यामि। कुत्र पश्यामि? तदा अनुबोधित आसं नीलेशवर्यस्य जालपत्रमस्ति यत्र भाष्येषु अन्वेषणं शक्यम्। मया नीलेशवर्यस्य निर्मिते जालपत्रे अनुवदते इत्यस्यान्वेषणमकरवम्। तस्मिन् कृते अनोरकर्मकात् (१.३.४९) इति सूत्रं प्राप्तम्। तस्मिन् प्राप्ते कदा कदा वद् इति धातोः आत्मनेपदी आगच्छति इति ज्ञातम् यत् (१.३.४७) इति सूत्रादारभ्य (१.३.५०) इति पर्यन्तमागतेषु सूत्रेषु निर्दिष्टम्।

शास्त्रे वदते (शास्त्र में उसकी बुद्धि प्रकाशित होती है)। कर्मकरान् उपवदते (नौकरों को सान्त्वना देता है)। व्याकरणे वदते (व्याकरण का सम्यक् ज्ञान प्राप्त करता है)। गेहे वदते (घर में पुरुषार्थ करता है)। क्षेत्रे विवदन्ते (खेत में विवाद करते हैं)। मन्त्री राजानम् उपवदते (मन्त्री राजा से एकान्त में सलाह करता है)।

२०१९-१२-२७ शुक्रवासरः (2019-12-27 Friday)

बलिः याच्यते वसुधाम् (Bali is asked for the earth)

मया कुत्रापि पठितं द्विकर्मकधातोः कर्मणि प्रयोगे प्रधानकर्म प्रथमाविभक्तौ अप्रधानकर्म द्वितीयाविभक्तौ। न स्मरामि कुत्र पठितम्। तस्मात् इमानि वाक्यानि लिखामि।
पयः गां दुह्यते। बलिः याच्यते वसुधाम्। ओदनः पच्यते तण्डुलान्। शतं दण्ड्यते गर्गान्। क्षितीशेन चौराः दण्ड्यन्ते प्राणान्। पन्थाः माणवकं पृच्छयते। फलानि अवचीयन्ते वृक्षम्। धर्मः उच्यते माणवकम्। धर्मः शिष्यते शिष्यम्। शतं देवदत्तं जीयते। सुधा क्षीरनिधिं मथ्यते। अजा ग्रामं नीयते।

२०१९-०९-११ बुधवासरः (2019-09-11 Wednesday)

प्रशंसामि (I appreciate)

इदानीं यत् दूरदर्शने पश्यामि तत् प्रशंसामि। ईहे अधिकं द्रष्टुं शक्नोमि किन्तु यत् ते दर्शयन्ति तत् एव द्रष्टुं शक्नोमि।शंस्  [शन्सुँ स्तुतौ] भ्वादि: परस्मैपदी सेट् सकर्मकः नोपदेशः उदित्
शंसुँ स्तुतौ सेट् धातुः अस्ति। अयं धातुः उगितः अस्ति तस्मात् किति इण्णिषेधः। अयं धातुः अनिदितः अस्ति हलन्तः च तस्मात् उत्तरं यदि कित् प्रत्ययः अस्ति तदा नोपधायाः लोपः भवति। लोपः कदा भवति कदा वा न भवति इति ध्यातव्यम्।
शंसुँ इत्यस्य धातोः क्तप्रत्ययान्तरूपमस्ति शस्तः। तेन रामः शस्तः।

२०१९-०८-०९ शुक्रवासरः (2019-08-09 Friday)

शुष्कः (Dry)

शुष कः (८.२.५१) निष्ठातस्य कः शुष्कः इति लघुसिद्धान्तकौमुदी। अनेन सूत्रेण शुष् क्त सुँ शुष्कः।
कथमिदं फलं न आर्द्रम्? कथं पर्य्युषितं शुष्कं फलं खादामि?
शुष्कवैरं विवादञ्च न कुर्य्यात् केनचित् सह इति मनुः। शुष्कं निष्प्रयोजनम्।

२०१९-०८-०५ सोमवासरः (2019-08-05 Monday)

अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते॥२.३.२९॥ (A panchamii …)

Dr Rama Nath Sharma’s translation: A पञ्चमी occurs after stems in construction with the following: अन्य (other, different) आरात् (far, near) इतर (the one other than) ऋते (without) दिक् शब्द (a directional name) अञ्चुत्तरपद (a directional name which has अञ्चू ‘bend’ as its final member) आच् (a stem terminating in affix आच्(see 5.3.36)) आहि (a stem terminating in affix आहि (see 5.3.37)).
The word दिश् is used in this rule with the word शब्द, perhaps to indicate, thereby, that usages where दिश्, ‘direction’ is used to denote location (देश) or time (काल) are also covered by this rule.
पूर्वः ग्रामात् पर्वतः। पूर्वः ग्रीष्मात् वसन्तः।
अपि अनेन सूत्रानुसारेण अधोलिखिते वाक्ये साधुनी?
षड्भ्यः मासेभ्यः उत्तरं सा आगमिष्यति। पञ्चभ्यः दिवसेभ्यः परं सः गमिष्यति।

२०१९-०६-०८ शनिवासरः (2019-06-08 Saturday)