काम एष क्रोध एषः (It is desire, it is anger)

अथ केन प्रयुक्तोऽयम् इति पृष्टे भगवान् उवाच –
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥गीता ३.३७॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि॥६.१.१३२॥ इति सूत्रेण एषः क्रोधः इति एष क्रोधः इति भवति।
कामः पुल्ँलिङ्गः शब्दः अस्ति। कम् कमुँ कान्तौ घञि कामः। कमेर्णिङ्॥३.१.३०॥ इति सूत्रेण णिङ् प्रत्ययः यस्मात् कम् + णिङ् + घञ् + सुँ = कामः।
क्रोधः अपि घञ् इति प्रत्यये सम्भवति तस्मात् क्रोधः अपि पुल्ँलिङ्गः शब्दः अस्ति।

२०१९-१०-२९ मङ्गलवासरः (2019-10-29 Tuesday)

ज्ञेयम् (Should know)

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥गीता १.३९॥
अन्वयः – कुलक्षयकृतम् दोषम् प्रपश्यद्भिः अस्माभिः पापात् अस्मात् निवर्तितुम् कथम् न ज्ञेयम्।
Why we who can see the fault in destroying the family not know how to turn away from this sin?

भट्टमहाभागाः लिखन्ति –
यद्यप्येते न पश्यन्ति लोभो पहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
The above two verses have to be read together.
जनार्दन! यद्यप्येते लोभो पहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् न पश्यन्ति, कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिः पापादस्मान्निवर्तितुम् कथं न ज्ञेयम् ? ॥ ३८-३९।।
यद्यपि लोभसे भ्रष्टचित्त हुए ये लोग कुलके नाशसे उत्पन्न होनेवाले दोषोंको और मित्रोंसे विरोध करनेमें पाप नहीं देख पाते, फिर भी हे जनार्दन ! कुलनाशसे उत्पन्न दोषोंको जाननेवाले हमलोगोंने, इस पापसे हटनेके लिये क्यों नहीं सोचना चाहिये ? ३८-३९।।

२०१९-१०-२३ बुधवासरः (2019-10-23 Wednesday)

उषितम् (Stayed)

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥गीता १७.१०॥
कथं शत्रुमध्ये त्वया सुचिरम् उषितं कथं वा तेषाम् अनुनयः कृतः इति हितोपदेशे संधिः-कथा दशमी।
यामः दिवारात्र्योश्चतुर्थभागैकभागः तत्तात्पर्यः प्रहरः इत्यमरः। यातयामं यातं गतं कालः यं तं यातयामम्। पूति इत्यस्य विपरीतौ अर्थौ स्तः दुर्गन्धं पवित्रं च। पूय् धातोः पू धातोः च। अत्र दुर्गन्धम् इत्यर्थे प्रयुक्तम् इति मन्ये। मेध्यं यत् पूजायां अर्पणं भवितुम् अर्हति।
उषितम् इति पदे वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण सम्प्रसारणम्। वसतिक्षुधोरिट् (७.२.५२) अनेन सूत्रेण इडागमः।

२०१९-१०-१८ शुक्रवासरः (2019-10-18 Friday)

दैवी संपद् (Godly Quality)

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥गीता १६.१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भुतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥गीता १६.२॥
पुल्ँलिङ्गशब्दाः – दमः यज्ञः स्वाध्यायः अक्रोधः त्यागः।
स्त्रीलिङ्गशब्दाः – सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः अहिंसा शान्तिः दया।
नपुंसकलिङ्गशब्दाः – अभयं दानं तपः आर्जवं सत्यं अपैशुनं लोलुप्त्वं मार्दवम् अचापलम्।
आर्जवम् ऋजोर्भावः अण्, straightforward, straightness, straight in the front देवदत्तस्यार्जवे। अपैशुनम् पैशुन्याभावः non-calumny. लोपुपः लोलुभः। मार्दवं मृदोर्भाव अण् softness.

२०१९-१०-११ शुक्रवासरः (2019-10-11 Friday)

युञ्जयाद्योगम् (May unite in yoga)

युञ्ज्यात् – परस्मैपदी विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या (९.१.१))
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
युज् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् यासुट् ति (यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३))
युज् यास् ति (हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
युज् यास् स्ति (सुट् तिथोः (३.४.१०७))
युज् या ति (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युज् या त् (इतश्च (३.४.१००))
यु न ज् या त् (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् या त् (श्नसोरल्लोपः (६.४.१११))
युं ज् यात् (नश्चापदान्तस्य झलि (८.३.२४))
युञ्ज्यात् (अनुस्वारस्य ययि परसवर्णः (८.४.५८))

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः॥
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये॥गीता ६.१२॥

२०१९-०९-२२ रविवासरः (2019-09-22 Sunday)

योगी युञ्जीत सततम् (May the yogi be constantly united)

युञ्जीत – विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या)
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् त (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
यु न ज् त (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् त (श्नसोरल्लोपः (६.४.१११))
यु न् ज् सीयुट् त (लिङः सीयुट् (३.४.१०२))
यु न् ज् सीय् त (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
यु न् ज् सी त (लोपो व्योर्वलि (६.१.६६))
यु न् ज् ईत (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युं ज् ईत (नश्चापदान्तस्य झलि (८.३.२४))
युञ्जीत (अनुस्वारस्य ययि परसवर्णः (८.४.५८))

योगी युञ्जीत सततमात्मानं रहसि स्थितः।गीता ६.१०।

२०१९-०९-२१ शनिवासरः (2019-09-21 Saturday)

सुखमुपैति योगिनम् (Happiness comes to the Yogi )

उप + एति = उपैति इति इण् गतौ अदादिः परस्मैपदी प्रथमपुरुषः एकवचनं लट्लकारः।
ह्यः अस्मिन् वार्त्तापत्रे मया अपैति इत्यस्य अप एति इति विग्रहरूपं लिखितम्। भ्रमेण अमन्ये वृद्धिरेचि इति सूत्रेण अयं सन्धिः भवति। कथं भट्टमहाभागः मम भ्रममौहत न जाने किन्तु सः मामपृच्छत् केन सूत्रेण इति। मम भ्रमं निश्चित्य सः मां सूत्रद्वयमसूचयत् याभ्यां सन्धिः भवति।
एङि पररूपम् (६.१.९४) इतीदं सूत्रं वृद्धिरेचि (६.१.८७) इत्यस्य अपवादः अस्ति। एङि पररूपम् (६.१.९४) इत्यनेन वृद्धिः न भवति किन्तु ए इति पररूपं भवति। किन्तु एङि पररूपम् (६.१.९४) इत्यस्य अपवादः अस्ति एत्येधत्यूठ्सु (६.१.८९) यस्मात् वृद्धिः भवति।
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतकल्मषम्॥गीता ६.२७
अन्वयः – उत्तमं सुखम् हि उपैति प्रशान्तमनसं शान्तरजसं ब्रह्मभूतकल्मषम् एनं योगिनम्।

२०१९-०९-२० शुक्रवासरः (2019-09-20 Friday)