ङित्वत् (Like Nit)

तिङन्तरूपाणि प्रायः व्यूहे (in an array or matrix) आयोजितानि सन्ति। तस्मिन् व्यूहे यः अंशः प्रथमायां पङ्क्त्यां प्रथमे स्तम्भे च अस्ति सः अंशः (१,१) इति लक्ष्यते, द्वितीयां पङ्क्त्यां प्रथमे स्थम्भे अस्ति सः (२,१)। तस्मात् नव अंशाः
(१,१), (१,२), (१,३)
(२,१), (२,२), (२,३)
(३,१), (३,२), (३,३)
इति लक्ष्यन्ते।
डुकृञ् करणे तनादिः उभयपदी सकर्मकः अनिट्
करोति कुरुतः कुर्वन्ति
करोषि कुरुथः कुरुथ
करोमि कुर्मः कुर्वः
ज्ञा अवबोधने क्र्यादिः परस्मैपदी सकर्मकः अनिट्
जानाति जानीतः जानन्ति
जानासि जानीथः जानीथ
जानामि जानीमः जानीवः
उपरि दत्तयोः व्यूहयोः पश्यतु (१,१), (२,१), (३,१) इति अंशान् ते (१,२), (२,२), (३,२), (१,३), (२,३), (३,३) इति अंशेभ्यः भिन्नाः सन्ति। यतो हि प्रथमस्य समूहस्य प्रत्ययानां पित् संज्ञा भवति किन्तु द्वितीयस्य समूहस्य ङित् संज्ञा भवति। तस्मात् अधोलिखितानि सूत्राणि ङित् कार्यं कुर्वन्ति।
सार्वधातुकमपित् (१.२.४) इत्यनेन सूत्रेण ये सार्वधातुकाः अपित् प्रत्ययाः सन्ति ते ङित्वत् भवन्ति।
अतः उत् सार्वधातुके (६.४.११०) – कुरुतः
श्नसोरल्लोपः (६.४.१११) – युङ्क्तः, स्तः, सन्ति
श्नाभ्यासयोरातः (६.४.११२) – जानन्ति, ददति
ई हल्यघो (६.४.११३) – जानीतः
इमानि सर्वाणि सूत्राणि क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति। त्रिणि सूत्राणि सार्वधातुके इत्यस्य अनुवृत्तिः अपि प्राप्नुवन्ति।

२०२०-०२-१४ शुक्रवासरः (2020-02-14 Friday)

कथयित्वा (Having Said)

कथ वाक्यप्रबन्धे इति चुरादिः उभयपदी सकर्मकः सेट् धातुरस्ति।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योः णिच् (३.१.२५) इति सूत्रेण कथ इत्यनेन सह णिच् इति भवति।
कथ + णिच् + क्त अत्र णिच् इत्यस्य लोपः भवति निष्ठायां सेटि (६.४.५२) इति सूत्रेण। आर्धधातुकस्येड् वलादेः (७.२.३५) इति सूत्रेण इडागमः भवति।
कथ + इट् + त अत्र टकारस्य लोपः तथा अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः भवति तस्मात्
कथि + त अत्र इकारस्य गुणः क्क्ङिति च (१.१.५) इति सूत्रं बाधते तस्मात् कथित + सुँ = कथितम् इति रूपस्य सिद्धिः भवति।
किन्तु यत्र क्त क्तवतु वा प्रत्ययः न भवति तत्र णिच् इत्यस्य लोपः न भवति।
कथ णिच् तुमुन् -> कथि इट् तुम् -> कथे इ तुम् -> कथयितुम् अत्र इकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण तत् परं एचोऽयवायावः (६.१.७८) इति सूत्रेण एकारस्य अय्।
किन्तु न क्त्वा सेट् (१.२.१८) इति सूत्रेण कथयित्वा भवति यतो हि कित् इत्यनेन गुणस्य प्रतिषेधः न भवति।
कथितम् कथितवान् कथयितव्यम् कथनीयम् (णेरनिटि (६.४.५१)) कथयितुम् कथयित्वा।

२०२०-०२-११ मङ्गलवासरः (2020-02-11 Tuesday)

सा आहूता किन्तु तया सुप्तम् (She was called but she slept)

हूतानि भूतानि न श्रूयन्ते जागरितान्यपि।
हूताः सुप्ता योगिनः श्रूयन्त अनुक्रियन्ते च॥
वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण किति प्रत्यये सम्प्रसारणं भवति। किं नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (१.१.४५) यस्मात् अत्र य् -> इ, व् -> उ इति भवति।
वचिस्वपियजादि इति एकादश धातवः सन्ति वच् स्वप् यज् वप् वह् वस् वेञ् व्येञ् ह्वेञ् वद् श्वि।
वच् क्त -> उ अ च् त -> उ च् त अत्र सम्प्रसारणाच्च (६.१.१०८) इति सूत्रेण उकारस्य अकारस्य च एक्ः पूर्वादेशः उकारादेशः इति भवति, अन्ते चोः कुः (८.२.३०) इति सूत्रेण उक्त सुँ उक्तः इति रूपं सिद्ध्यते।
तथा क्त इति प्रत्यये यज् इष्टः, वप् उप्तः, वह् ऊढः, वस् उषितः, वे उतः, सम् व्ये संवितः, वद् उदितः, श्वि शूनः।
ह्वे क्त इति हु त भवति सम्प्रसारणात्। तत् परं हलः (६.४.२) इति सूत्रेण अङ्गस्य दीर्घः भवति तस्मात् हू त सुँ हूतः इति रूपं सिद्ध्यते।
किन्तु दीर्घत्वम् अङ्गस्य एव भवति तस्मात् स्वप् क्त सुँ सुप् त सुँ सुप्तम् इति भवति। अत्र उकारः अङ्गस्य नास्ति यतो हि उकारः पकारः परः अस्ति।

२०२०-०१-२८ मङ्गलवासरः (2020-01-28 Tuesday)

आज्ञापयतु (Please order)

दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम्।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे॥श्रीमद् अध्यात्मरामायणम् उत्तरकाण्डः षष्ठः सर्गः ५
(Ramachandra says) I will do your work even though difficult. Please order me your servant, Brahmins are my objects of worship.
आज्ञापयतु विज्ञापयतु इत्यनयोः ज्ञा नियोगे इति चुरादिगणीय धातुः अस्ति।
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इति सूत्रेण आकारान्तधातुभ्यः णिच् इति प्रत्यये पुक् आगमः भवति। तस्मात् ज्ञा णिच् तिप् -> ज्ञा प् इ शप् ति -> ज्ञापि अति ->  ज्ञापयति (सार्वधातुकार्धधातुकयोः (७.३.८४))।

२०२०-०१-२६ रविवासरः (2020-01-26 Sunday)

निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

निदिध्यासनम् (Profound and Repeated Meditation)

निदिध्यासनम् – नि + ध्यै + सन् . ततो भावे ल्युट्
ध्यै चिन्तायाम् भ्वादिः परस्मैपदी सकर्मकः अनिट्
ध्यै सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
ध्यै स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
ध्या स (आदेच उपदेशेऽशिति (६.१.४५))
ध्या ध्या स (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
धा ध्या स (हलादिः शेषः (७.४.६०))
ध ध्या स (ह्रस्वः (७.४.५९))
धि ध्या स (सन्यतः (७.४.७९))
दि ध्या स (अभ्यासे चर्च (८.४.५४))
नि दि ध्या स ल्युट् सुँ -> निदिध्यासनम् इति युवोरनाकौ (७.१.१) इत्यनेन।

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । – बृहदारण्यकोपनिषत् (२-४-५)
निदिध्यासनं, क्ली, (पुनः पुनरतिशयेन वा निध्यायतीति । नि + ध्यै + सन् । ततो भावे ल्युट् । ) पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा- कारिताया बुद्धेः स्वजातीयप्रवाहः । इति वेदान्तसारः
निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योपकृष्य आत्मविषयकस्थैर्य्यानुकूलो मानसो व्यापारः।

२०२०-०१-१५ बुधवासरः (2020-01-15 Wednesday)

सम्पर्कः (Contact)

अहं तेन सह सम्पर्कं करोमि। अहं कृष्णेन सह सम्पृणच्मि।
पृचीँ सम्पर्के रुधादिः परस्मैपदी सकर्मकः सेट् ईदित् हलन्तः चकारान्तः ऋदुपधः ऋकारोपधः
सं पृच् घञ् सुँ इति चजोः कु घिण्ण्यतोः (७.३.५२) इत्यनेन सम्पर्कः भवति।
सं पृच् क्त सुँ इति निष्टायामनिट इति वक्तव्यं इति वार्तिकेन सम्पृक्तः इति भवति। इदं वार्तिकं चजोः कु घिण्ण्यतोः (७.३.५२) इति सूत्रस्य वार्तिकमस्ति। श्वीदितो निष्ठायाम्। इतीडभावः।
वागार्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥रघुवंशम्॥

२०२०-०१-१० शुक्रवासरः (2020-01-10 Friday)