मतुबर्थाः प्रत्ययाः (Affixes showing possession)

मतुबर्थाः एकचत्वारिंशत् प्रत्ययाः सन्ति। मतुबर्थप्रत्यायानां सूत्राणां क्रमे आदिमः सूत्रोऽस्ति – तदस्यास्त्यस्मिन्निति मतुप् (५.२.९४)। अनेन सह मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९), झयः (८.२.१०) इत्येते सूत्रे स्मर्तव्ये।
बुद्धिमत् सुँ बुद्धिमान् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्यनेन सकारस्य लोपः, उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इति सूत्रेण नुमागमः, अत्वसन्तस्य चाधातोः (६.१४) इत्यनेन उपधायाः दीर्घत्वम्)।
बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः
बुद्धिमन्तम् बुद्धिमन्तौ बुद्धिमतः
बुद्धिमता बुद्धिमद्भ्याम् बुद्धिमद्भिः
बुद्धिमते बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
बुद्धिमतः बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
बुद्धिमतः बुद्धिमतोः बुद्धिमताम्
बुद्धिमति बुद्धिमतोः बुद्धिमत्षु
हे बुद्धिमन् हे बुद्धिमन्तौ हे बुद्धिमन्तः
वायुमान्, पितृमान्, गोमान्।
किम् मतुप् सुँ किंवान्, शमीवान्, लक्ष्मीवान्, वृक्षवान्, मालावान्, (मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९))।
पयस्वान्, भास्वान्, विद्युत्वान् (झयः (८.२.१०))।

२०२०-०१-०७ मङ्गलवासरः (2020-01-07 Tuesday)

देव्यः गताः (The Queens Went)

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम्॥उत्तररामचरितम् १.३॥
रामस्य मातरः देव्यः वसिष्ठाधिष्ठिताः अरुन्धतीं पुरस्कृत्य जामातुराश्रमम् यज्ञे गताः।
The mothers of Ram, the queens, under the protection of Vasistha, keeping Arundhati in the front, went to the ashram of their son-in-law for a yagna.
जामाता अत्र दशरथस्य कन्यायाः पतिः ऋष्यशृङ्गः इति। मया न ज्ञातं दशरथस्य दुहिताप्यसीत्।
अत्र यज्ञे इति सप्तमी वर्तते निमित्तात्कर्मयोगे सप्तमी इति वार्तिकेन अथवा यज्ञे सति इत्यर्थे।
अत्र गता इति क्तः प्रयोगोऽस्ति तथापि कर्ता प्रथमाविभक्तावस्ति। कथम्? गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इति सूत्रेण। अनेन सूत्रेण गतिवाची क्तप्रत्ययः कर्मणि कर्तरि भावे च भवति। अस्मिन् श्लोके तथा गताः कर्तर्यस्ति।
आचार्येणोत्तररामचरितं पठ इति निर्दिष्टोऽहमस्मि। केनापि मम शुभचिन्तकेनोत्तररामचरितं पुस्तकं मह्यं दत्तं तस्मादाचार्यस्य निर्देशनस्याचरणं सुशकमभवत्। ताभ्यां धन्यवादो व्याहरामि।

२०१९-११-२५ सोमवासरः (2019-11-25 Monday)

यमक्षयः (The residence of Yama)

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्॥रामायणम् २.६०.३
(Kaushalya says:) Turn back the chariot quickly (and) take me also to the Dandaka forest. If I do not follow them (Ram, Lakshman, and Sita) then I will go to the abode of Yama.
क्षि + अच् + सुँ = क्षयः। अच् इत्यस्य च् इत्यस्य इत् संज्ञा अस्ति।
क्षि अ इति आर्धधातुके प्रत्यये सार्वधातुकार्धधातुकयोः (७.३.८४) सूत्रेण गुणादेशः, क्षे अ तत् परम् एचोऽयवायावः (६.१.७८) इत्यनेन क्षय तत् परं क्षय सुँ क्षयः।

२०१९-१०-१७ गुरुवासरः (2019-10-17 Thursday)

सज्जितः (Ready)

सज्जितः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
षस्जँ गतौ भ्वादि: परस्मैपदी सेट् सकर्मकः षोपदेशः अदित्
सस्ज् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), धात्वादेः षः सः (६.१.६४))
सश्ज् (स्तो श्चुना श्चुः (८.४.४०))
सज्ज् (झलां जश् झशि (८.४.५३))
सज्ज् क्त (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
सज्ज् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
सज्जित (आर्धधातुकस्येड्वलादेः (७.२.३५))
सज्जित सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
सज्जित स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
सज्जितः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-१३ शनिवासरः (2019-07-13 Saturday)

शिष्टः (Eminent or Remainder)

शिष्टः इत्येषः द्वयोः अर्थयोः प्रयुज्यते। शिष्टः शान्तः सुबुद्धिः धीरः इति कल्पद्रुमः। अन्यतरश्च शिष्टः शेषः।
शास् शासुँ अनुशिष्टौ अदादिः परस्मैपदी सेट् द्विकर्मकः जक्षित्यादिः उदित् (to rule, to govern)
शास् क्तः सुँ शिष्टः (Wise) शास इदङ्हलोः॥६.४.३४॥ शासिवसिघसीनाञ्च॥८.३.६०॥
कल्पद्रुमे शास क्तः सुँ शासितः इति रूपमपि अस्ति। न मन्ये शास इदङ्हलोः॥६.४.३४॥ इति सूत्रं विकल्पेन भवति तस्मात् कथं शासितः?
न पाणिपादचपलो न नेत्रचपलो मुनिः।
न च वागङ्गचपलो इति शिष्टस्य लक्षणम्॥
Restrained hands and feet, restrained eyes, speech and body parts not unrestrained, (such) are the signs of a cultured thinker.
शिष् शिषँ हिंसायाम् भ्वादिः परस्मैपदी अनिट् सकर्मकः (to hurt, to leave as a remainder, spare)
शिष् क्तः सुँ शिष्टः (Remainder) ष्टुना ष्टुः॥८.४.४१॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः॥गीता ३.१३॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्॥गीता ४.३१॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥गीता १७.१०॥

२०१९-०७-१२ शुक्रवासरः (2019-07-12 Friday)

परिभाषासूत्रम् (General rule)

अष्टाध्याय्यां षड्विधानि सूत्राणि सन्ति। तेषु परिभाषासूत्राणि अन्यतमानि सन्ति। प्राधान्यतः अष्टाध्याय्यां विधिसूत्राणि सन्ति। प्रश्नः अस्ति परिभाषाविधिसूत्रयोः कः भेदः इति।
मन्ये परिभाषासूत्राणि न्यायपालकस्य इव सन्ति। यदा विधिसूत्राणां प्रयोजने शङ्कास्ति तदा परिभाषासूत्रैः ता शङ्का निवार्यते।
यथा अस्मिन् सूत्रे – आर्धधातुकस्येड् वलादेः॥७.२.३५॥ इट्-आगमस्य व्यवस्थास्ति। अस्मिन् सूत्रे – ह्रस्वस्य पिति कृति तुक्॥६.१.७१॥ – तुक्-आगमस्य व्यवस्था अस्ति। प्रश्नः अस्ति इट्-आगमः वलादेः प्रत्ययस्य परं तिष्ठति अथवा पूर्वम् तथा कुत्र पुक्-आगमः। अस्य संशयस्य निर्णयं करोति इदं परिभाषासूत्रम् – आद्यन्तौ टकितौ॥१.१.४६॥
पठ् स्य तिप् -> पठ् इट् स्य तिप् -> पठिष्यति (स्य इति वलादी प्रत्ययः)।
वि जि ल्यप् -> वि जि य -> वि जि तुक् य -> विजित्य (तुक् ह्रस्वस्य जि इति धातोः परं तिष्ठति)।

२०१९-०४-१९ शुक्रवासरः (2019-04-19 Friday)

कर्तव्यताकम् (one who does the duty (?))

चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थं निबध्नंश्चिकीर्षितं ग्रन्थादौ प्रतिजानिते – निधायेति। तर्कसङ्ग्रहदीपिका

अत्र कर्तव्यताकं मन्ये तत्र तद्धितः अस्ति। कः प्रत्ययः। कः अर्थः।

२०१९-०३-०५ मङ्गलवासरः (2019-03-05 Tuesday)