तिर्यङ् (Animal – Going horizontally)

तिर्यङ् – प्रथमाविभक्तिः एकवचनम्
तिरस् अन्च् क्विँन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (३.२.५९))
तिरस् अच् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९), वेरपृक्तस्य (६.१.६७), अनिदितां हल उपधायाः क्ङिति (६.४.२४))
तिरि अच् (तिरसस्तिर्यलोपे (६.३.९३))
तिरि अच् सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
तिरि अच् स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
तिरि अनुँम्च् स् (उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०), मिदचोऽन्त्यात् परः (१.१.४७))
तिरि अन्च् स् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
तिरि अन्च् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
तिर्यन्च् (इको यणचि (६.१.७७))
तिर्यन् (संयोगान्तस्य लोपः (८.२.२३))
तिर्यङ् (क्विन्प्रत्ययस्य कुः (८.२.६२))

२०१९-०६-२० गुरुवासरः (2019-06-20 Thursday)

Advertisements

प्राङ् (Eastern)

प्राङ् – प्रथमाविभक्तिः एकवचनम्
प्र अन्च् क्विँन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (३.२.५९))
प्र अच् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९), वेरपृक्तस्य (६.१.६७), अनिदितां हल उपधायाः क्ङिति (६.४.२४))
प्र अच् सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
प्र अच् स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
प्र अनुँम्च् स् (उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०), मिदचोऽन्त्यात् परः (१.१.४७))
प्र अन्च् स् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
प्र अन्च् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
प्रान्च् (अकः सवर्णे दीर्घः (६.१.१०१))
प्रान् (संयोगान्तस्य लोपः (८.२.२३))
प्राङ् (क्विन्प्रत्ययस्य कुः (८.२.६२))

२०१९-०६-१८ मङ्गलवासरः (2019-06-18 Tuesday)

ह्रस्वः गुणः च (hrasva and guna)

अम्बार्थनद्योर्ह्रस्वः॥७.३.१०७॥ हे अम्ब हे नदि।
ह्रस्वस्य गुणः॥७.३.१०८॥ हे रवे।
जसि च॥७.३.१०९॥ रवयः साधवः।
ऋतोः ङिसर्वनामस्थानयोः॥७.३.११०॥ पितरौ पितरः पितरम् पितरि।
घेर्ङिति॥७.३.१११॥ रवये रवेः।
आण्नद्याः॥७.३.११२॥ नद्यै नद्याः।
याडापः॥७.३.११३॥ लतायै लतायाः।
सर्वनाम्नः स्याड्ढ्रस्वश्च॥७.३.११४॥ सर्वस्यै सर्वस्याः यस्यै यस्याः।

२०१९-०६-१२ बुधवासरः (2019-06-12 Wednesday)

अतः एत् (et for at)

अतो दीर्घो यञि॥७.३.१०१॥ पचामः।
सुपि च॥७.३.१०२॥ रामाय रामाभ्याम्।
बहुवचने झल्येत्॥७.३.१०३॥ रामेभ्यः रामेषु।
ओसि च॥७.३.१०४॥ रामयोः।
आङि चापः॥७.३.१०५॥ लतया लतयोः।
संबुद्धौ॥७.३.१०६॥ हे लते।

२०१९-०६-११ मङ्गलवासरः (2019-06-11 Tuesday)

अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते॥२.३.२९॥ (A panchamii …)

Dr Rama Nath Sharma’s translation: A पञ्चमी occurs after stems in construction with the following: अन्य (other, different) आरात् (far, near) इतर (the one other than) ऋते (without) दिक् शब्द (a directional name) अञ्चुत्तरपद (a directional name which has अञ्चू ‘bend’ as its final member) आच् (a stem terminating in affix आच्(see 5.3.36)) आहि (a stem terminating in affix आहि (see 5.3.37)).
The word दिश् is used in this rule with the word शब्द, perhaps to indicate, thereby, that usages where दिश्, ‘direction’ is used to denote location (देश) or time (काल) are also covered by this rule.
पूर्वः ग्रामात् पर्वतः। पूर्वः ग्रीष्मात् वसन्तः।
अपि अनेन सूत्रानुसारेण अधोलिखिते वाक्ये साधुनी?
षड्भ्यः मासेभ्यः उत्तरं सा आगमिष्यति। पञ्चभ्यः दिवसेभ्यः परं सः गमिष्यति।

२०१९-०६-०८ शनिवासरः (2019-06-08 Saturday)

ध्रुवमपायेऽपादानम्॥१.४.२४॥ (In separation fixed point is apaadaana)

ध्रुवम् अपाये अपादानं कारके।
वृक्षात् पर्णानि पतन्ति। अत्र पतनम् इति अपायः विश्लेषः। तस्मिन् अपाये वृक्षः ध्रुवः अस्ति तस्मात् वृक्षः इति अपादानं कारकम्।

२०१९-०६-०७ शुक्रवासरः (2019-06-07 Friday)

नोपधायाः (Of the upadhaa of na)

इमानि सूत्राणि उपधायाः दीर्घत्वं कदा भवति इति विधियन्ते।
नामि॥६.४.३॥ रामाणाम्
नोपधायाः॥६.४.७॥ पञ्चानाम्
सर्वनामस्थाने चासम्बुद्धौ॥६.४.८॥ आत्मा, आत्मानौ, आत्मानः, आत्मानम्, आत्मानौ, आत्मनः।
सान्तमहतः संयोगस्य॥६.४.१०॥ महान्, महान्तौ, महान्तः।
इन्हन्पूषार्यम्णां शौ॥६.४.१२॥ दण्डि, दण्डिनी, दण्डीनि।
सौ च॥६.४.१३॥ ज्ञानी, ज्ञानिनौ, ज्ञानिनः।
अत्वसन्तस्य चाधातोः॥६.४.१४॥ बलवान्, बलवन्तौ, बलवन्तः।

२०१९-०६-०५ बुधवासरः (2019-06-05 Wednesday)