निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

निदिध्यासनम् (Profound and Repeated Meditation)

निदिध्यासनम् – नि + ध्यै + सन् . ततो भावे ल्युट्
ध्यै चिन्तायाम् भ्वादिः परस्मैपदी सकर्मकः अनिट्
ध्यै सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
ध्यै स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
ध्या स (आदेच उपदेशेऽशिति (६.१.४५))
ध्या ध्या स (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
धा ध्या स (हलादिः शेषः (७.४.६०))
ध ध्या स (ह्रस्वः (७.४.५९))
धि ध्या स (सन्यतः (७.४.७९))
दि ध्या स (अभ्यासे चर्च (८.४.५४))
नि दि ध्या स ल्युट् सुँ -> निदिध्यासनम् इति युवोरनाकौ (७.१.१) इत्यनेन।

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । – बृहदारण्यकोपनिषत् (२-४-५)
निदिध्यासनं, क्ली, (पुनः पुनरतिशयेन वा निध्यायतीति । नि + ध्यै + सन् । ततो भावे ल्युट् । ) पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा- कारिताया बुद्धेः स्वजातीयप्रवाहः । इति वेदान्तसारः
निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योपकृष्य आत्मविषयकस्थैर्य्यानुकूलो मानसो व्यापारः।

२०२०-०१-१५ बुधवासरः (2020-01-15 Wednesday)

सम्पर्कः (Contact)

अहं तेन सह सम्पर्कं करोमि। अहं कृष्णेन सह सम्पृणच्मि।
पृचीँ सम्पर्के रुधादिः परस्मैपदी सकर्मकः सेट् ईदित् हलन्तः चकारान्तः ऋदुपधः ऋकारोपधः
सं पृच् घञ् सुँ इति चजोः कु घिण्ण्यतोः (७.३.५२) इत्यनेन सम्पर्कः भवति।
सं पृच् क्त सुँ इति निष्टायामनिट इति वक्तव्यं इति वार्तिकेन सम्पृक्तः इति भवति। इदं वार्तिकं चजोः कु घिण्ण्यतोः (७.३.५२) इति सूत्रस्य वार्तिकमस्ति। श्वीदितो निष्ठायाम्। इतीडभावः।
वागार्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥रघुवंशम्॥

२०२०-०१-१० शुक्रवासरः (2020-01-10 Friday)

न अवस्यति (Does not complete)

सो [षो अन्तकर्मणि] इति दिवादिः परस्मैपदी सकर्मकः अनिट् धातुरस्ति।
न जाने कथं सः कार्यं न अवस्यति इति। स्यति इत्यस्य सिद्धये ओतः श्यनि (७.३.७१) इति स्मर्तव्यम्।

व्यवस्यति इति कार्ये व्यापृतोऽस्ति (busy or engaged).
अहो बत महत्पापं कर्तुं व्यवसिता वयम् (गीता १.४५)।
व्यवसो + क्त + सुँ = व्यवसितम्। अत्र द्यतिस्यतिमास्थामित्ति किति (७.४.४०) इति सूत्रं स्मर्तव्यम्।

व्यवसाययन्ति (makes (someone) engaged in work) इति णिजन्तरूपम्।
व्यवसाययामि यान् कार्येषु न ते व्यवस्यन्ति।
न मां व्यवसाययति तदापि व्यवसितोऽहम्॥

२०१९-१२-३० सोमवासरः (2019-12-30 Monday)

आप्यायन्तु ममाङ्गानि (Grow (make stronger) my body parts)

आप्यायन्तु ममाङ्गानि अत्र कथं परस्मैपदी?
प्यैङ् वृद्धौ इति आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।
ओँप्यायीँ वृद्धौ इत्यपि आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।

२०१९-१२-२८ शनिवासरः (2019-12-28 Saturday)

अनुवदति अनुवदते (Repeats)

वदँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् धातुरस्ति।
किन्तु कठः कलापस्य अनुवदते (People of kaTha branch follow the chanting of the kalaapa branch (of Veda)) इत्यस्मिन् वाक्ये अनुवदते इत्यामनेपदी अस्ति। कथमात्मनेपदी?
मया चिन्तितं कथमस्य समास्याया निराकरणं समाधानं वा करिष्यामि। कुत्र पश्यामि? तदा अनुबोधित आसं नीलेशवर्यस्य जालपत्रमस्ति यत्र भाष्येषु अन्वेषणं शक्यम्। मया नीलेशवर्यस्य निर्मिते जालपत्रे अनुवदते इत्यस्यान्वेषणमकरवम्। तस्मिन् कृते अनोरकर्मकात् (१.३.४९) इति सूत्रं प्राप्तम्। तस्मिन् प्राप्ते कदा कदा वद् इति धातोः आत्मनेपदी आगच्छति इति ज्ञातम् यत् (१.३.४७) इति सूत्रादारभ्य (१.३.५०) इति पर्यन्तमागतेषु सूत्रेषु निर्दिष्टम्।

शास्त्रे वदते (शास्त्र में उसकी बुद्धि प्रकाशित होती है)। कर्मकरान् उपवदते (नौकरों को सान्त्वना देता है)। व्याकरणे वदते (व्याकरण का सम्यक् ज्ञान प्राप्त करता है)। गेहे वदते (घर में पुरुषार्थ करता है)। क्षेत्रे विवदन्ते (खेत में विवाद करते हैं)। मन्त्री राजानम् उपवदते (मन्त्री राजा से एकान्त में सलाह करता है)।

२०१९-१२-२७ शुक्रवासरः (2019-12-27 Friday)

क्षुरस्य निशिता धारा (Razor’s Sharp Edge)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥कठोपनिषद् १.३.१४॥
शो तनूकरणे (to sharpen) दिवादिः परस्मैपदी धातुः अस्ति।
शो + तिप् इति पकारलोपे दिवादिभ्यः श्यन् (३.४.६९) इत्यनेन सूत्रेण श्यन् विकरणः आगच्छति तस्मात् शो श्यन् ति। अस्य विकरणस्य श् न् च इत्यनयोः लोपः भवति। अनन्तरं ओतः श्यनि (७.३.७१) इत्यनेन ओकारलोपे श्यति भवति।
शो + क्त + सुँ इति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण शातः भवति।
किन्तु शाछोरन्यतरस्याम् (७.४.४१) इत्यनेन शो + क्त + सुँ इत्यस्य क्तप्रत्यायन्तरूपं शितः अपि भवति। तस्मात् निशितः तस्य स्त्रीलिङ्गरूपमस्ति निशिता (sharp)।
Translation: Arise, awake, find out the great ones and learn of them; for sharp as a razor’s edge, hard to traverse, difficult of going is that path, say the sages.

२०१९-१२-२० शुक्रवासरः (2019-12-20 Friday)