अनुवदति अनुवदते (Repeats)

वदँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् धातुरस्ति।
किन्तु कठः कलापस्य अनुवदते (People of kaTha branch follow the chanting of the kalaapa branch (of Veda)) इत्यस्मिन् वाक्ये अनुवदते इत्यामनेपदी अस्ति। कथमात्मनेपदी?
मया चिन्तितं कथमस्य समास्याया निराकरणं समाधानं वा करिष्यामि। कुत्र पश्यामि? तदा अनुबोधित आसं नीलेशवर्यस्य जालपत्रमस्ति यत्र भाष्येषु अन्वेषणं शक्यम्। मया नीलेशवर्यस्य निर्मिते जालपत्रे अनुवदते इत्यस्यान्वेषणमकरवम्। तस्मिन् कृते अनोरकर्मकात् (१.३.४९) इति सूत्रं प्राप्तम्। तस्मिन् प्राप्ते कदा कदा वद् इति धातोः आत्मनेपदी आगच्छति इति ज्ञातम् यत् (१.३.४७) इति सूत्रादारभ्य (१.३.५०) इति पर्यन्तमागतेषु सूत्रेषु निर्दिष्टम्।

शास्त्रे वदते (शास्त्र में उसकी बुद्धि प्रकाशित होती है)। कर्मकरान् उपवदते (नौकरों को सान्त्वना देता है)। व्याकरणे वदते (व्याकरण का सम्यक् ज्ञान प्राप्त करता है)। गेहे वदते (घर में पुरुषार्थ करता है)। क्षेत्रे विवदन्ते (खेत में विवाद करते हैं)। मन्त्री राजानम् उपवदते (मन्त्री राजा से एकान्त में सलाह करता है)।

२०१९-१२-२७ शुक्रवासरः (2019-12-27 Friday)

क्षुरस्य निशिता धारा (Razor’s Sharp Edge)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥कठोपनिषद् १.३.१४॥
शो तनूकरणे (to sharpen) दिवादिः परस्मैपदी धातुः अस्ति।
शो + तिप् इति पकारलोपे दिवादिभ्यः श्यन् (३.४.६९) इत्यनेन सूत्रेण श्यन् विकरणः आगच्छति तस्मात् शो श्यन् ति। अस्य विकरणस्य श् न् च इत्यनयोः लोपः भवति। अनन्तरं ओतः श्यनि (७.३.७१) इत्यनेन ओकारलोपे श्यति भवति।
शो + क्त + सुँ इति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण शातः भवति।
किन्तु शाछोरन्यतरस्याम् (७.४.४१) इत्यनेन शो + क्त + सुँ इत्यस्य क्तप्रत्यायन्तरूपं शितः अपि भवति। तस्मात् निशितः तस्य स्त्रीलिङ्गरूपमस्ति निशिता (sharp)।
Translation: Arise, awake, find out the great ones and learn of them; for sharp as a razor’s edge, hard to traverse, difficult of going is that path, say the sages.

२०१९-१२-२० शुक्रवासरः (2019-12-20 Friday)

हिमांशोः कलाक्षयः (The waning of the phases of the moon)

स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाध्यतरो हि वृद्धेः॥रघुवंशम् ५.१६॥

स्थाने अव्ययम् proper. व्यनक्ति वि + अञ्ज् + तिप् – प्रथमपुरुषः एकवचनम्; व्यनक्ति प्रकटयति,अञ्जूँ व्यक्तिमर्षणकान्तिगतिषु रुधादिगणः परस्मैपदी सकर्मकः वेट् धातुः अस्ति अत्र व्यक्तौ इत्यर्थे उपयुक्तः। भवान् एकनराधिपः the only king (on the earth) सन् are अकिञ्चन्नत्वं being without anything (wealth) मखजम् born from yajnya.

पर्यायः in turn परि इ घञ् सुँ। ञित्वात् इ इत्यस्य वृद्धिः अनन्तरम् एचोऽयवायावः (६.१.७८), इ गतौ। सुरैः पर्यायपीतस्य (of the moon) drunk by the gods in turn हिमांशोः of the moon कलाक्षयः waning of the phases of the moon श्लाध्यतरः better वृद्धेः waxing of the phases of the moon.

Even though you are the one (unchallenged)  ruler of the world, your state without anything (any wealth) as a result of the yajna (because of giving away the wealth for the yajna) is appropriate as the waning of the moon, due the drinking in turns by the gods, is more beautiful than the waxing.

भट्टामहाभागाः लिखन्ति –

तं च सोमं पपुर्देवाः पर्यायेणानुपूर्बशः ॥ ६॥ प्रथमां पिबते वह्निः द्वितियां पिबते रविः । विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः ॥ ७॥ पञ्चमीं तु वषट्कारः षष्टीं पिबत वासवः । सप्तमीं ऋषयो दिव्याः अष्टमीमज एकपात् ॥ ८॥ नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥ ९॥ द्वादशीं पितरः सर्वे सम्प्राश्नन्ति भागशः । त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ॥ १०॥ चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः । निष्पीत एककलाशेषः चन्द्रमा न प्रकाशते ॥ ११॥

२०१९-१२-१४ शनिवासरः (2019-12-14 Saturday)

कल्पते (Becomes Fit)

कृप्  (क्लृप्) भ्वादिगणीयः आत्मनेपदी अकर्मकः वेट् धातुः।
कॢपिसम्पद्यमाने चतुर्थी वक्तव्या इति वार्तिकोऽस्ति चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रेण सह।
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥गीता २।१५॥ (becomes fit for immortality)
मां च योऽव्यभिचारेण भक्तियोगेन सेवते।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते॥गीता १४।२६॥ (becomes fit for Brahma state)
आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताम् इति यजुर्वेदे नवमे अध्याये एकविंशे श्लोके। अत्र यज्ञेन तृतीयास्ति न चतुर्थी। कथम्?

भट्टमहाभागाः लिखन्ति – कलृपि यज्ञस्य सम्पद्यमनत्वं सम्पद्यमाने न विवक्षितम्। आयुरादीनां हेतुत्वमेव विवक्षितमायुरादीनां सामर्थ्ये। तथा च, यज्ञेन हेतुना, आयुः समर्थं भवतु, प्राणः समर्थो भवतु, चक्षुः स्वकार्ये समर्थं भवतु इत्यर्थः विवक्षितः। न तु यज्ञः आयुरूपेण सम्पद्यमानो भवतु इत्यादिरूपेण। तदैव आयुषे यज्ञः कल्पतामिति प्रयोगः। यज्ञः एव आयुः सम्पद्यते चेदेव तथा प्रयोगः। क्लृपि संपद्यमाने चेति। क्लृपीति सप्तमी। सम्पत्तिः=विकारात्मना उत्पत्तिः। परिणाम इति यावत्। क्लृपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः। भक्तिरिति। ज्ञानात्मना परिणमते इत्यर्थः।

२०१९-१२-०५ गुरुवासरः (2019-12-05 Thursday)

किमर्थं पाणिनिः? (Why Panini?)

जनाः प्रायः पृच्छन्ति कथं वयं पाणिनिसूत्राणि शिक्षामहै इति। नैकानि कारणानि सन्ति किन्तु सूत्राणां सौन्दर्यं महत् कारणमेव। अस्माकं गते संस्कृतपाठे सेव् इति धातोः रूपाण्यनुशीलामः स्म तदा मया चिन्तितं कथं सेवेते इति। गृहं प्रत्यागम्य ज्ञातम् आतो ङितः (७.२.८१) इति सूत्रेण सेवेते भविष्यति। तस्य सूत्रस्य पूर्वमस्ति अतो येयः (७.२.८०) इति सूत्रं यस्मात् पठेत् इति रूपमस्ति।
आतो ङितः (७.२.८१) इत्यस्य अर्थो भवति यदाकारस्य परे सार्वधातुकस्य ङितसंज्ञकस्य प्रत्ययस्य आकारो अस्ति चेत् तस्याकारस्य इयः इति आदेशः भवति। सेव् शप् आताम् -> सेव् अ आताम् इत्यस्मिन् आम् इत्यस्य ए आदेशः भवति आ इत्यस्य इय् आदेशः भवति। लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवति यस्मात् सेवेते।
सेवते सेवेते सेवन्ते
सेवसे सेवेथे सेवध्वे
सेवे सेवावहे सेवामहे
इति रूपाणि परिशीलन्तो यदि टित आत्मनेपदानां टेरे (३.४.७९) आतो ङितः इत्यादीनि स्मरामः तर्हि तस्यानन्दो न वर्णयितुं शक्यते। इदं धात्वा क्रमेण अतो येयः इत्यनायासेन मनसि प्रविशत्यानन्दं वर्धयति च। न जानेऽशेषसूत्रेष्ववबुद्धेषु क आनन्दो जायते इति किन्तु तमानन्दं ज्ञातुं प्रयते।

२०१९-११-२४ रविवासरः (2019-11-24 Sunday)

विश्राम्यामि इति कथं सकर्मकः प्रयोगः? (How to rest is a transitive verb?)

मया विश्रम्यतामित्यभिहिता इति गणदासः मालविकाग्निमित्रे प्रथमे अङ्के। अयं तु कर्मणि प्रयोगोऽस्ति। शिक्षणार्थं धातुकोषे पश्यति ज्ञातं श्रम् इति सकर्मको धातुरस्ति तथा विश्रम् इत्यपि सकर्मकः।
न बोधामि अहं विश्राम्यामि इत्यस्मिन् किं कर्म अस्ति। अप्यस्य अर्थोऽस्ति अहं स्वयं विश्राम्यामि?

२०१९-११-२१ गुरुवासरः (2019-11-21 Thursday)

शिष्टाम् (They two should govern)

तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे।
नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव॥मालविकाग्निमित्रम् ५.१३॥
शीतोष्णकिरणौ शीतकिरणः (the moon) उष्णकिरणः (the sun) च।
शिष्टाम् इति लोट्लकारः प्रथमपुरुषः द्विवचनम्। शासुँ अनुशिष्टौ अदादिगणीयः परस्मैपदी धातुः।
शास् + ताम् इत्यस्य शास इदङ्हलोः (६.४.३४) इति सूत्रेण आतो इदादेषो भवति शिष्टाम् इति।
तौ (भ्रातरौ the two brothers Yajnasena and Madhavasena) शिष्टाम् (should govern), तौ के शिष्टाम्, वरदानद्याः द्वे कूले (द्वितियाविभक्तिः द्विवचनम्) शिष्टाम्। एकः भ्राता उत्तरकूलं (north bank) शास्तु अन्यः भ्राता दक्षिणकूलं शास्तु। कथम्। यथा शीतकिरणः रात्रिं शास्ति उष्णकिरणः दिवसं शास्ति तथा।
अयं श्लोक आचार्येणास्माकं लाभाय लक्षितः।

२०१९-११-१७ रविवासरः (2019-11-17 Sunday)