उत्पद्यते (arise, originate, to be born or produced)

पद्  [ पदँ गतौ ] दिवादि: आत्मनेपदी अनिट् सकर्मकः अदित्

 

उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः। Desires of the poor arise and disappear.
उदपादि चास्य मनसि। It occurred to his mind.
युद्धमुत्पत्स्यते महत्। A great war will arise.
उत्पन्नावसरमर्थित्वम्। For which an occasion has presented itself.
उत्पद्यते यदि ज्ञानं क्रमशोऽर्थान् प्रतीत्य ज्ञानिनः।
तन्नैव भवति नित्यं न क्षायिकं नैव सर्वगतम्॥
क्षायिकम् annihilation of the desire of being active Jain
प्रतीत्य recognised

२०१९-०४-१८ गुरुवासरः (2019-04-18 Thursday)

Advertisements

आचष्टे (He speaks)

गोमन्तम् आचष्टे गवयति, गुणवन्तम् आचष्टे गुणयति, स्रग्विणम् आचष्टे स्रजयति, अन्तिकम् आचष्टे नेदयति, बाढम् आचष्टे साधयति।
अद्यतनीयां वार्तायाम् आसीत् – रफाल-विषयम् आलक्ष्य प्रधानमन्त्रिणि टिप्पणीं आचक्षिताय राहुलाय न्यायालयेन सम्प्रेषितं समाह्वानम्।
चक्ष्  [ चक्षिँङ् व्यक्तायां वाचि ]अदादि: आत्मनेपदी सेट् सकर्मकः इदित् ङित्

लट् ( आत्मनेपदम् )

चष्टे चक्षाते चक्षते
चक्षे चक्षाथे चड्ढ्वे
चक्षे चक्ष्वहे चक्ष्महे

२०१९-०४-१६ मङ्गलवासरः (2019-04-16 Tuesday)

ये उपासते (All those who worship)

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥गीता १२.२॥
उपासते – लट्लकारः आत्मनेपदी प्रथमपुरुषः बहुवचनम्
आसँ उपवेशने अदादिः आत्मनेपदी सेट् अकर्मकः अदित्
उप आस् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
उप आस् लँट् (वर्तमाने लँट् (३.२.१२३))
उप आस् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
उप आस् झ (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
उप आस् अत (आत्मनेपदेष्वनतः (७.१.५))
उपासते (टित आत्मनेपदानां टेरे (३.४.७९))

२०१९-०३-०३ रविवासरः (2019-03-03 Sunday)

स्वापः नागच्छत् (Sleep didn’t come)

स्वापः – स्वप् घञ् सुँ
गतरात्रौ प्रायः एकादशवादने ते उद्घोषयन् अभिनन्दनवर्तमानः भारतभूमौ शीघ्रं स्वपादौ स्थापयिष्यति किन्तु अहम् अजानि तत् तु न शीघ्रं भविष्यति तस्मात् स्वपितुं शय्यायां प्राप्तम्। किन्तु स्वापः न सुशकम् आगच्छत्। रात्रौ एकादशवादने उत्थाय समाचाराः दृष्टाः किन्तु अभिनन्दनवर्तमानः तदापि पाकिस्तानस्य निगृहणे आसीत्। तेन समाचारेण सह एकम् अन्यम् अपि सन्देशम् अपठं यस्मात् मम स्वापः दूरात् अपि दूरम् अगच्छत्।
प्रातःकाले अभिनन्दनवर्तमानस्य प्रत्यागमनस्य समाचारान् पठित्वा अभिनन्दितः अस्मि।

२०१९-०३-०२ शनिवासरः (2019-03-02 Saturday)

कन्दरः (A cave)

कन्दरः – केन जलेन दीर्यते इति कल्पद्रुमः। दॄ विदारे (To burst or break asunder, split open.)

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संसक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः।
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्
सङ्गतार्थो ननु पशुपतेस्तत्र भावीसमग्रः॥पूर्वमेघः ६०॥

अन्वयः – अनिलैः पूर्यमाणाः कीचकाः (a hollow bamboo) मधुरं शब्दायन्ते संसक्ताभिः (together) किन्नरिभिः त्रिपुरविजयः गीयते कन्दरेषु ते (your) निर्ह्रादः (thunder) मुरजे (on the drum) ध्वनिः इव स्यात् चेत् (तर्हि) तत्र पशुपतेः (of Shiva) सङ्गीतार्थः (material for music) ननु समग्रः (complete) भावी (will become).

दॄ. दॄ [d], I. 4, 9 P. (दीर्यति, दॄणाति, दीर्ण) इति आप्टेवर्यस्य शब्दकोषः।  धातुपाठे दिवादिगणीयः दॄ न दृश्यते किन्तु तस्य प्रयोगः अस्ति एव।
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते।
प्रावृषीव महानद्या स्पृष्टं कूलं नवाम्भसा।।रामायणम् 2.20.49।।

२०१९-०२-०६ बुधवासरः (2019-02-06 Wednesday)

मेनिरे – लिट्लकारः, प्रथमपुरुषः, बहुवचनम् (knew)

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।
सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्।।रामयाणम् 2.109.11।। https://www.valmiki.iitk.ac.in/
क्षयम् गृहम्।

मन्  [ मनँ ज्ञाने ] दिवादि: आत्मनेपदी अनिट् सकर्मकः अदित्
मेनिरे – लिट्लकारः, प्रथमपुरुषः,
 बहुवचनम् (knew or believed)
लिटि द्वित्वं भवति किन्तु अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120     इत्यनेन सूत्रेण द्वित्वं न भवति मन् इत्यस्मिन्  यः अकारः अस्ति तस्य एकारादेशः भवति च।

२०१९-०१-११ शुक्रवासरः (2019-01-11 Friday)

शुश्रूषस्व (You should desire to hear)

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयः वामाः कुलस्याधयः॥ अभिज्ञानशाकुन्तलम् ४.१८॥
शुश्रूषस्व – लोट्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्
श्रु [श्रवणे] भ्वादि: परस्मैपदी अनिट् सकर्मकः
श्रु सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
श्रु स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
श्रु स लोँट् (लोट् च (३.३.१६२))
श्रु स ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
श्रु स थास् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८), ज्ञाश्रुस्मृदृशां सनः (१.३.५७))
श्रु स से (थासः से (३.४.८०))
श्रु स स्व (सावाभ्यां वामौ (३.४.९१))
श्रु श्रु स स्व (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
श्रु श्रू स स्व (अज्झनगमां सनि (६.४.१६))
श्रुश्रूषस्व (आदेशप्रत्यययोः (८.३.५७))

२०१९-०१-०२ बुधवासरः (2019-01-02 Wednesday)