न अवस्यति (Does not complete)

सो [षो अन्तकर्मणि] इति दिवादिः परस्मैपदी सकर्मकः अनिट् धातुरस्ति।
न जाने कथं सः कार्यं न अवस्यति इति। स्यति इत्यस्य सिद्धये ओतः श्यनि (७.३.७१) इति स्मर्तव्यम्।

व्यवस्यति इति कार्ये व्यापृतोऽस्ति (busy or engaged).
अहो बत महत्पापं कर्तुं व्यवसिता वयम् (गीता १.४५)।
व्यवसो + क्त + सुँ = व्यवसितम्। अत्र द्यतिस्यतिमास्थामित्ति किति (७.४.४०) इति सूत्रं स्मर्तव्यम्।

व्यवसाययन्ति (makes (someone) engaged in work) इति णिजन्तरूपम्।
व्यवसाययामि यान् कार्येषु न ते व्यवस्यन्ति।
न मां व्यवसाययति तदापि व्यवसितोऽहम्॥

२०१९-१२-३० सोमवासरः (2019-12-30 Monday)

क्षुरस्य निशिता धारा (Razor’s Sharp Edge)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥कठोपनिषद् १.३.१४॥
शो तनूकरणे (to sharpen) दिवादिः परस्मैपदी धातुः अस्ति।
शो + तिप् इति पकारलोपे दिवादिभ्यः श्यन् (३.४.६९) इत्यनेन सूत्रेण श्यन् विकरणः आगच्छति तस्मात् शो श्यन् ति। अस्य विकरणस्य श् न् च इत्यनयोः लोपः भवति। अनन्तरं ओतः श्यनि (७.३.७१) इत्यनेन ओकारलोपे श्यति भवति।
शो + क्त + सुँ इति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण शातः भवति।
किन्तु शाछोरन्यतरस्याम् (७.४.४१) इत्यनेन शो + क्त + सुँ इत्यस्य क्तप्रत्यायन्तरूपं शितः अपि भवति। तस्मात् निशितः तस्य स्त्रीलिङ्गरूपमस्ति निशिता (sharp)।
Translation: Arise, awake, find out the great ones and learn of them; for sharp as a razor’s edge, hard to traverse, difficult of going is that path, say the sages.

२०१९-१२-२० शुक्रवासरः (2019-12-20 Friday)

विश्राम्यामि इति कथं सकर्मकः प्रयोगः? (How to rest is a transitive verb?)

मया विश्रम्यतामित्यभिहिता इति गणदासः मालविकाग्निमित्रे प्रथमे अङ्के। अयं तु कर्मणि प्रयोगोऽस्ति। शिक्षणार्थं धातुकोषे पश्यति ज्ञातं श्रम् इति सकर्मको धातुरस्ति तथा विश्रम् इत्यपि सकर्मकः।
न बोधामि अहं विश्राम्यामि इत्यस्मिन् किं कर्म अस्ति। अप्यस्य अर्थोऽस्ति अहं स्वयं विश्राम्यामि?

२०१९-११-२१ गुरुवासरः (2019-11-21 Thursday)

त्रपते भोजने न तृप्यति (Shy while eating is not satisfied)

यः भोजने त्रपते सः न तृप्यति।
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ॥गङ्गालहरी २८॥ अयं श्लोकः कल्पद्रुमे अस्ति किन्तु यः कल्पद्रुमः सङ्गणीकृतोऽस्ति तस्मिन् दोषोऽस्ति मन्ये इदं शुद्धं रूपमस्ति।
अपत्रप् to turn away or retire through shame
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येन अपत्रपते साधुरसाधुस्तेन तुष्यति॥
को न तृप्यति वित्तेन।
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसा वामलोचना॥
आपगा river, अन्तकः death

तृप् [ तृपँ प्रीणने ] दिवादि: परस्मैपदी वेट् सकर्मकः पुषादिः रधादिः अदित् ऋदुपधः पकारान्तः हलन्तः
त्रप् [ त्रपूँष् लज्जायाम् ] भ्वादि: आत्मनेपदी वेट् अकर्मकः ऊदित् षित् पकारान्तः हलन्तः

२०१९-११-१० रविवासरः (2019-11-10 Sunday)

शुष्कः (Dry)

शुष कः (८.२.५१) निष्ठातस्य कः शुष्कः इति लघुसिद्धान्तकौमुदी। अनेन सूत्रेण शुष् क्त सुँ शुष्कः।
कथमिदं फलं न आर्द्रम्? कथं पर्य्युषितं शुष्कं फलं खादामि?
शुष्कवैरं विवादञ्च न कुर्य्यात् केनचित् सह इति मनुः। शुष्कं निष्प्रयोजनम्।

२०१९-०८-०५ सोमवासरः (2019-08-05 Monday)

यं प्रति कोपः तत् सम्प्रदानसंज्ञम् (On whom anger in dative case)

क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः॥१.४.३७॥
मम द्वितीया सदैव मह्यं क्रुध्यति। स्वीकरोम्यहं गृहकार्यं न करोमि अन्यान्यकरणीयानि कार्याणि करोमि च। पुनः चिन्तनं कृत्वा मन्ये अत्र सम्प्रदानकारकं नोचितं यतो हि सा न कोपेन क्रुध्यति। मम द्वितीया सदैव मम क्रुध्यति। (शेषे षष्ठी।)
क्रुधद्रुहोरुपसृष्टयोः कर्म॥१.४.३८॥
मम द्वितीया मामभिक्रुध्यति।

२०१९-०७-०६ शनिवासरः (2019-07-06 Saturday)

क्रुद्धम् (Angry)

क्रुद्धम् – नपुंसकलिङ्गः प्रथमाविभक्तिः एकवचनम्
क्रुधँ क्रोधे दिवादि: परस्मैपदी अनिट् अकर्मकः पुषादिः अदित्
क्रुध् क्त (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
क्रुध् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
क्रुध् ध (झषस्तथोर्धोऽघः (८.२.४०))
क्रुद्ध (झलां जश् झशि (८.४.५३))
क्रुद्ध सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
क्रुद्ध स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
क्रुद्धम् (अतोऽम् (७.१.२४))

२०१९-०७-०५ शुक्रवासरः (2019-07-05 Friday)