मह्यं भृष्टाः भल्लातकाः (cashew-nuts) अतीव रोचन्ते।
भृष्टः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
भ्रस्ज् [भ्रस्जँ पाके] तुदादि: उभयपदी अनिट् सकर्मकः अदित्
भ्रस्ज् क्त (क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
भ्रस्ज् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
भृस्ज् त (ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६))
भृज् त (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
भृष्ट (ष्टुना ष्टुः (८.४.४१))
भृष्ट सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
भृष्ट स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
भृष्टः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))
२०१९-०७-२० शनिवासरः (2019-07-20 Saturday)
मम मनसि संशयः आसीत् यतो हि अयं क्रमः सम्यगस्ति।
भृज् त् (स्कोः संयोगाद्योरन्ते च (८.२.२९))
भृष् त (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६))
(स्कोः संयोगाद्योरन्ते च (८.२.२९)) इत्यनेनसूत्रेणभ्रस्ज इति धातोः भृज् इति भवति तस्मात् कथं (व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६)) इत्यिदं सूत्रं कथं संभवति?
डॉभट्टमहाभागेन अस्मात् तस्य संशयस्य निवारणम् अकरवम्।
छिन्नेऽपि पुच्छे श्वा चैव न चाश्वो न च गर्दभः इति न्यायः। एकदेशविकृतमनन्यवत् इति परिभाषा।
Like this:
Like Loading...