भारते सर्वासु दूरदर्शनप्रणालीषु NDTV इति मूर्धनि तिष्ठति पुनः NDTV इत्यस्मिन् निधीराजदान इति सर्वोपरि। यावता सर्वे जानन्ति तस्याः हार्वर्डविश्वविद्यालये नियुक्तिः यया सा NDTV इत्यस्मिन् पदत्यागमकरोत् बोस्टननगरीं प्राप्नोत् च।
पत्रकारिता तस्याः कार्यक्षेत्रं यत्र प्रमाणान्वेक्षणमनिवार्यं किन्तु सा अस्मिन् विषये किमपि परीक्षणं न अकरोत्। अप्यस्मादेव भारते सर्वा पत्रकारिता भवति? न उन्नेतुं शक्नोमि ते कीदृशाः पत्रकाराः सन्ति। न उन्नेतुं पारयामि ते कीदृशेन दर्पेण पीडिताः सन्ति। न आवेदनं न सक्षात्कारः न योग्यता न अनुभवः तथापि साक्षात् प्राध्यापकपदे विश्वविद्यालये नियुक्तिः। दर्परोगेण पीडितानां भारतीयपत्रकाराणाम् एव ईदृशमाचरणं सम्भाव्यते।
चिन्तयामि कथं संवित्पात्रामहाभाग इदानीं निधीविपर्यासम् उत्सवयते।

२०२१-०१-१६ शनिवासरः (2021-01-16 Saturday)