कथयित्वा (Having Said)

कथ वाक्यप्रबन्धे इति चुरादिः उभयपदी सकर्मकः सेट् धातुरस्ति।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योः णिच् (३.१.२५) इति सूत्रेण कथ इत्यनेन सह णिच् इति भवति।
कथ + णिच् + क्त अत्र णिच् इत्यस्य लोपः भवति निष्ठायां सेटि (६.४.५२) इति सूत्रेण। आर्धधातुकस्येड् वलादेः (७.२.३५) इति सूत्रेण इडागमः भवति।
कथ + इट् + त अत्र टकारस्य लोपः तथा अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः भवति तस्मात्
कथि + त अत्र इकारस्य गुणः क्क्ङिति च (१.१.५) इति सूत्रं बाधते तस्मात् कथित + सुँ = कथितम् इति रूपस्य सिद्धिः भवति।
किन्तु यत्र क्त क्तवतु वा प्रत्ययः न भवति तत्र णिच् इत्यस्य लोपः न भवति।
कथ णिच् तुमुन् -> कथि इट् तुम् -> कथे इ तुम् -> कथयितुम् अत्र इकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण तत् परं एचोऽयवायावः (६.१.७८) इति सूत्रेण एकारस्य अय्।
किन्तु न क्त्वा सेट् (१.२.१८) इति सूत्रेण कथयित्वा भवति यतो हि कित् इत्यनेन गुणस्य प्रतिषेधः न भवति।
कथितम् कथितवान् कथयितव्यम् कथनीयम् (णेरनिटि (६.४.५१)) कथयितुम् कथयित्वा।

२०२०-०२-११ मङ्गलवासरः (2020-02-11 Tuesday)

आज्ञापयतु (Please order)

दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम्।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे॥श्रीमद् अध्यात्मरामायणम् उत्तरकाण्डः षष्ठः सर्गः ५
(Ramachandra says) I will do your work even though difficult. Please order me your servant, Brahmins are my objects of worship.
आज्ञापयतु विज्ञापयतु इत्यनयोः ज्ञा नियोगे इति चुरादिगणीय धातुः अस्ति।
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इति सूत्रेण आकारान्तधातुभ्यः णिच् इति प्रत्यये पुक् आगमः भवति। तस्मात् ज्ञा णिच् तिप् -> ज्ञा प् इ शप् ति -> ज्ञापि अति ->  ज्ञापयति (सार्वधातुकार्धधातुकयोः (७.३.८४))।

२०२०-०१-२६ रविवासरः (2020-01-26 Sunday)

गर्हते गृहयते गृह्णाति (To Accept)

गृ॑हूँ ग्रहणे (गृह्) भ्वादिः आत्मनेपदी धातुः गर्हते गर्हेते गर्हन्ते इत्यादीनि रूपाणि।
गृ॑ह॒ ग्रहणे चुरादिः आत्मनेपदी धातुः गृहयते गृहयेते गृहयन्ते इत्यादीनि रूपाणि।
ग्र॑हँ॒ उपादाने (ग्रह्) क्रयादिः उभयपदी धातुः गृह्णाति गृह्णीतः गृह्णन्ति गृह्णीते गृह्णाते गृह्णते इत्यादीनि रूपणि।
एते त्रयः धातवः समानार्थिनः इति मन्ये तस्मात् कथं एषु त्रिषु धातुसु गृह्णाति इत्यस्य उपयोगः अधिकं वर्तते?
सन्त्यज्य शूर्पवद्दोषान् गुणान् गृह्णाति सज्जनः।

२०१८-०९-०५ बुधवासरः (2018-09-05 Wednesday)

अनुशीलयति (He practices repeatedly)

अहं गीतायाः श्लोकानां पाठम् अनुशीलयामि।
अहं योगासनानि अनुशीलयामि।

२०१६-१०-०४ मङ्गलवासरः (2016-10-04 Tuesday)

अनुसन्धाने (To Search)

त्रयः धातवः अनुसन्धाने इति अर्थे उपयोक्तुं शक्यते। मृग अन्वेषणे चुरादिगणीयः आत्मनेपदी सेट् धातुः, गवेष मार्गणे चुरादिगणीयः उभयपदी सेट् धातुः, अनु + इष् गतौ दिवादिगणीयः परस्मैपदी सेट् धातुः।
अहं रत्नान् मृगये। अहं गृहे मम पुस्तकं गवेषये। सा बालकानां कृते भोजनं गवेषयते। सः कुञ्चिकां गवेषयति। अहं सत्यम् अन्वेष्यामि। सः मार्गम् अन्वेष्यति।
उपरि दत्तं धातुत्रयं सेट् अस्ति। तस्मात् मृगितं मृगयितुं मृगयित्वा गवेषितं गवेषयितुं गवेषयित्वा अन्वेषितम् अवेषितुम् अन्वेषित्वा।

२०१६-०७-१० रविवासरः (2016-07-10 Sunday)

ल्युटि इडागमः (iT with lyuT)

ल्युट्
ल्युट्-प्रत्ययः आर्धातुकः प्रत्ययः अस्ति। आर्धधातुके प्रत्यये प्रथमे इडागमव्यवस्था शोचनीया। प्रत्ययानाम् इडागमनाय सूत्रत्रयं महत्वपूर्णं सन्ति (नेड्‌ वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९), आर्धधातुकस्येड्वलादेः (७.२.३५))।
अनुबन्धः विहाय ल्युट्-प्रत्ययस्य यु इति अवशिष्यते। यु इति वलादिः नास्ति तस्मात् जानीमः ल्युटि इडागमः न भविष्यति। तत् परं यु इत्यस्य अन इति आदेशः भवति। ल्युटि अजन्तधातूनां अजन्तस्य गुणादेशः भवति तत् परम् अव् अय् वा आदेशः भवति। ल्युटि गुणादेशपरं सर्वे धातवः हलन्ताः भवन्ति तथा हल् इति परम् अ इति अस्ति तस्मात् ल्युटि किमपि सन्धिकार्यं न अर्हति। संक्षेपे ल्युटि गुणादेशः इति मुख्यकार्यम् अस्ति। तत् विहाय कानिचित् विशेषकार्याणि सन्ति किन्तु तानि बहूनि न सन्ति।

कथनम्
कथ वाक्यप्रबन्धे वाक्यप्रबन्धने [१८६१] चुरादिः उभयपदी सेट्
कथ णिच् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
कथ इ (आदिर्ञिटुडवः (१.३.५), तस्य लोपः (१.३.९))
कथ् इ (अतो लोपः (६.४.४८))
कथ् इ ल्युट् (ल्युट् च (३.३.११५))
कथ् इ यु (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
कथ् इ अन (युवोरनाकौ (७.१.१))
कथन (णेरनिटि (६.४.५१))
कथन सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
कथनम् (अतोऽम् (७.१.२४))

२०१५-१२-२९ मङ्गलवासरः (2015-12-29 Tuesday)

चुरादिगणेभ्यः ल्युटि

कथ + ल्युट् + सुँ = कथनम्
अत्र कथं चुरादिगणेभ्यः ल्युटि इति अस्मात् णेर्लोपः भवति?
णेर्लोपाय चत्वारि सूत्राणि सन्ति –
णेरनिटि ॥६.४.५१॥
निष्ठायां सेटि ॥६.४.५२॥
जनिता मन्त्रे ॥६.४.५३॥
शमिता यज्ञे ॥६.४.५४॥
किन्तु एतेषु चतुर्षु सूत्रेषु चुरादिगणेभ्यः ल्युटि णेर्लोपः इति न पश्यामि। कथं लोपः? कृपया अवबोधयतु।