कथयित्वा (Having Said)

कथ वाक्यप्रबन्धे इति चुरादिः उभयपदी सकर्मकः सेट् धातुरस्ति।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योः णिच् (३.१.२५) इति सूत्रेण कथ इत्यनेन सह णिच् इति भवति।
कथ + णिच् + क्त अत्र णिच् इत्यस्य लोपः भवति निष्ठायां सेटि (६.४.५२) इति सूत्रेण। आर्धधातुकस्येड् वलादेः (७.२.३५) इति सूत्रेण इडागमः भवति।
कथ + इट् + त अत्र टकारस्य लोपः तथा अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः भवति तस्मात्
कथि + त अत्र इकारस्य गुणः क्क्ङिति च (१.१.५) इति सूत्रं बाधते तस्मात् कथित + सुँ = कथितम् इति रूपस्य सिद्धिः भवति।
किन्तु यत्र क्त क्तवतु वा प्रत्ययः न भवति तत्र णिच् इत्यस्य लोपः न भवति।
कथ णिच् तुमुन् -> कथि इट् तुम् -> कथे इ तुम् -> कथयितुम् अत्र इकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण तत् परं एचोऽयवायावः (६.१.७८) इति सूत्रेण एकारस्य अय्।
किन्तु न क्त्वा सेट् (१.२.१८) इति सूत्रेण कथयित्वा भवति यतो हि कित् इत्यनेन गुणस्य प्रतिषेधः न भवति।
कथितम् कथितवान् कथयितव्यम् कथनीयम् (णेरनिटि (६.४.५१)) कथयितुम् कथयित्वा।

२०२०-०२-११ मङ्गलवासरः (2020-02-11 Tuesday)

सा आहूता किन्तु तया सुप्तम् (She was called but she slept)

हूतानि भूतानि न श्रूयन्ते जागरितान्यपि।
हूताः सुप्ता योगिनः श्रूयन्त अनुक्रियन्ते च॥
वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण किति प्रत्यये सम्प्रसारणं भवति। किं नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (१.१.४५) यस्मात् अत्र य् -> इ, व् -> उ इति भवति।
वचिस्वपियजादि इति एकादश धातवः सन्ति वच् स्वप् यज् वप् वह् वस् वेञ् व्येञ् ह्वेञ् वद् श्वि।
वच् क्त -> उ अ च् त -> उ च् त अत्र सम्प्रसारणाच्च (६.१.१०८) इति सूत्रेण उकारस्य अकारस्य च एक्ः पूर्वादेशः उकारादेशः इति भवति, अन्ते चोः कुः (८.२.३०) इति सूत्रेण उक्त सुँ उक्तः इति रूपं सिद्ध्यते।
तथा क्त इति प्रत्यये यज् इष्टः, वप् उप्तः, वह् ऊढः, वस् उषितः, वे उतः, सम् व्ये संवितः, वद् उदितः, श्वि शूनः।
ह्वे क्त इति हु त भवति सम्प्रसारणात्। तत् परं हलः (६.४.२) इति सूत्रेण अङ्गस्य दीर्घः भवति तस्मात् हू त सुँ हूतः इति रूपं सिद्ध्यते।
किन्तु दीर्घत्वम् अङ्गस्य एव भवति तस्मात् स्वप् क्त सुँ सुप् त सुँ सुप्तम् इति भवति। अत्र उकारः अङ्गस्य नास्ति यतो हि उकारः पकारः परः अस्ति।

२०२०-०१-२८ मङ्गलवासरः (2020-01-28 Tuesday)

निषण्णः (Seated)

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥रघुवंशम् २.२३

षदॢँ (सद्) विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट्

नि सद् क्त सुँ -> नि सद् त स् -> रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन दकारस्य तकारस्य च नकारः भवति (नि सन् न् स्), आदेशप्रत्ययोः (८.३.५९) इत्यनेन प्रथमस्य सकारस्य षकारः भवति (नि ष् न् न् स्), अट्कुपवाङ्नुम्व्यायेऽपि (८.४.२) इत्यनेन प्रक्थमस्य नकारस्य णकारः (नि षण् न स्), ष्टुना ष्टुः (८.४.४१) इत्यनेन द्वितीयस्य नकारस्य ण्कारः (नि षण् ण स्), अन्ते ससजुषो रुँ (८.२.६६) खरवसानयोर्विसर्जनीयः (८.३.१५) इत्याभ्यां द्वितीयस्य सकारस्य विसर्गः तस्मात् निषण्णः।

२०२०-०१-१९ रविवासरः (2020-01-19 Sunday)

क्षुरस्य निशिता धारा (Razor’s Sharp Edge)

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥कठोपनिषद् १.३.१४॥
शो तनूकरणे (to sharpen) दिवादिः परस्मैपदी धातुः अस्ति।
शो + तिप् इति पकारलोपे दिवादिभ्यः श्यन् (३.४.६९) इत्यनेन सूत्रेण श्यन् विकरणः आगच्छति तस्मात् शो श्यन् ति। अस्य विकरणस्य श् न् च इत्यनयोः लोपः भवति। अनन्तरं ओतः श्यनि (७.३.७१) इत्यनेन ओकारलोपे श्यति भवति।
शो + क्त + सुँ इति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण शातः भवति।
किन्तु शाछोरन्यतरस्याम् (७.४.४१) इत्यनेन शो + क्त + सुँ इत्यस्य क्तप्रत्यायन्तरूपं शितः अपि भवति। तस्मात् निशितः तस्य स्त्रीलिङ्गरूपमस्ति निशिता (sharp)।
Translation: Arise, awake, find out the great ones and learn of them; for sharp as a razor’s edge, hard to traverse, difficult of going is that path, say the sages.

२०१९-१२-२० शुक्रवासरः (2019-12-20 Friday)

यमक्षयः (The residence of Yama)

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्॥रामायणम् २.६०.३
(Kaushalya says:) Turn back the chariot quickly (and) take me also to the Dandaka forest. If I do not follow them (Ram, Lakshman, and Sita) then I will go to the abode of Yama.
क्षि + अच् + सुँ = क्षयः। अच् इत्यस्य च् इत्यस्य इत् संज्ञा अस्ति।
क्षि अ इति आर्धधातुके प्रत्यये सार्वधातुकार्धधातुकयोः (७.३.८४) सूत्रेण गुणादेशः, क्षे अ तत् परम् एचोऽयवायावः (६.१.७८) इत्यनेन क्षय तत् परं क्षय सुँ क्षयः।

२०१९-१०-१७ गुरुवासरः (2019-10-17 Thursday)

अवच्छिन्नः (Separated)

अव + छिद् + क्त + सुँ = अवच्छिन्नः।
अत्र द्वयोः सूत्रयोः प्रसक्तिः स्मर्तव्या। छे च (६.१.७३) इत्यस्मात् ह्रस्वस्य परे छकारः अस्ति चेत् तुक् आगमः भवति। अव तुक् छिद्। तुक् इत्यस्य त् एव अवशिष्यते यस्य स्तोः श्चुना श्चोः (८.४.४०) इत्यनेन चुत्वम् भवति। अव च् छिद्। रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन छिदि दकारस्य क्ति तकारस्य च नः भवति। अव च् छिन् न। तस्मात् सुपि अवच्छिन्नः।
अनवच्छिन्नः अपरिमिता असङ्कुचिता।
दिक्कालद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे॥नीतिशतकम् १॥

२०१९-०९-२९ रविवासरः (2019-09-29 Sunday)

निपातनं त्राणम् (Protected)

अद्य केन्बरानगरे अस्माकं संस्कृतवर्गे छात्रैः अहं पृष्टः त्रै इति धातोः कः अर्थः इति। भ्रमितः अहं protect, torment इति अर्थौ अकथयम्। किन्तु त्रस् इति धातोः अर्थः torment इति भवति न तु त्रै इति धातोः।
त्रै  [त्रैङ् पालने] भ्वादि: आत्मनेपदी अनिट् सकर्मकः ङित्
वयमिदानीं क्तप्रत्ययरूपाणि शिक्षामहे।
त्रै क्त सुँ त्रातं त्राणम्। आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन सूत्रेण आदादेशः तत् परं नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) सूत्रेण रूपद्वयं त्राणः त्रातः।
रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् सूत्रात् नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (८.२.६१) सूत्रतः निष्ठातः किं भवति इति विधिसूत्राणि सन्ति। तकारस्य नकारः भवत्येव वा विकल्पेन भवति। चिन्तयामि अपि इयं प्रक्रिया निपातनमिति अभिधीयते। यतो हि अत्र नकारः पतति तस्मात् निपातनम्।

२०१९-०८-२२ गुरुवासरः (2019-08-22 Thursday)