शिषँ हिंसायाम् भ्वादिः परस्मैपदी यथा शिशुपालवधे –
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव॥शिशुपालवधम् ३.६३॥
शिषॢँ विशेषणे रुधादिः परस्मैपदी यथा उत्तररामचरिते –
सुहृदिव प्रकटय्य सुखप्रदः प्रथमेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणो विधिरहो विशिनष्टि मनोरुजम्॥उत्तररामचरितम् ४.१५॥
मनोरुजम् मनोव्यथाम्।
वि शिष् तिप् -> वि शि श्नम् ष् ति = विशिनष्टि अत्र रुधादिभ्यं श्नम् (३.१.७८) मिदचोऽन्त्यात्परः (१.१.४७) सार्वधातुकमपित् (१.२.४) ष्टुना ष्टुः (८.४.८१) सूत्रैः विशिनष्टि इत्यस्य सिद्धिर्भवति।
शिषँ असर्वोपयोगे चुरादिः उभयपदी यथा रघुवंशे –
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत्॥रघुवंशम् १२.७९॥
२०२०-१२-२९ मङ्गलवासरः (2020-12-29 Tuesday)