आप्यायन्तु ममाङ्गानि (Grow (make stronger) my body parts)

आप्यायन्तु ममाङ्गानि अत्र कथं परस्मैपदी?
प्यैङ् वृद्धौ इति आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।
ओँप्यायीँ वृद्धौ इत्यपि आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।

२०१९-१२-२८ शनिवासरः (2019-12-28 Saturday)

कल्पते (Becomes Fit)

कृप्  (क्लृप्) भ्वादिगणीयः आत्मनेपदी अकर्मकः वेट् धातुः।
कॢपिसम्पद्यमाने चतुर्थी वक्तव्या इति वार्तिकोऽस्ति चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रेण सह।
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥गीता २।१५॥ (becomes fit for immortality)
मां च योऽव्यभिचारेण भक्तियोगेन सेवते।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते॥गीता १४।२६॥ (becomes fit for Brahma state)
आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताम् इति यजुर्वेदे नवमे अध्याये एकविंशे श्लोके। अत्र यज्ञेन तृतीयास्ति न चतुर्थी। कथम्?

भट्टमहाभागाः लिखन्ति – कलृपि यज्ञस्य सम्पद्यमनत्वं सम्पद्यमाने न विवक्षितम्। आयुरादीनां हेतुत्वमेव विवक्षितमायुरादीनां सामर्थ्ये। तथा च, यज्ञेन हेतुना, आयुः समर्थं भवतु, प्राणः समर्थो भवतु, चक्षुः स्वकार्ये समर्थं भवतु इत्यर्थः विवक्षितः। न तु यज्ञः आयुरूपेण सम्पद्यमानो भवतु इत्यादिरूपेण। तदैव आयुषे यज्ञः कल्पतामिति प्रयोगः। यज्ञः एव आयुः सम्पद्यते चेदेव तथा प्रयोगः। क्लृपि संपद्यमाने चेति। क्लृपीति सप्तमी। सम्पत्तिः=विकारात्मना उत्पत्तिः। परिणाम इति यावत्। क्लृपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः। भक्तिरिति। ज्ञानात्मना परिणमते इत्यर्थः।

२०१९-१२-०५ गुरुवासरः (2019-12-05 Thursday)

किमर्थं पाणिनिः? (Why Panini?)

जनाः प्रायः पृच्छन्ति कथं वयं पाणिनिसूत्राणि शिक्षामहै इति। नैकानि कारणानि सन्ति किन्तु सूत्राणां सौन्दर्यं महत् कारणमेव। अस्माकं गते संस्कृतपाठे सेव् इति धातोः रूपाण्यनुशीलामः स्म तदा मया चिन्तितं कथं सेवेते इति। गृहं प्रत्यागम्य ज्ञातम् आतो ङितः (७.२.८१) इति सूत्रेण सेवेते भविष्यति। तस्य सूत्रस्य पूर्वमस्ति अतो येयः (७.२.८०) इति सूत्रं यस्मात् पठेत् इति रूपमस्ति।
आतो ङितः (७.२.८१) इत्यस्य अर्थो भवति यदाकारस्य परे सार्वधातुकस्य ङितसंज्ञकस्य प्रत्ययस्य आकारो अस्ति चेत् तस्याकारस्य इयः इति आदेशः भवति। सेव् शप् आताम् -> सेव् अ आताम् इत्यस्मिन् आम् इत्यस्य ए आदेशः भवति आ इत्यस्य इय् आदेशः भवति। लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवति यस्मात् सेवेते।
सेवते सेवेते सेवन्ते
सेवसे सेवेथे सेवध्वे
सेवे सेवावहे सेवामहे
इति रूपाणि परिशीलन्तो यदि टित आत्मनेपदानां टेरे (३.४.७९) आतो ङितः इत्यादीनि स्मरामः तर्हि तस्यानन्दो न वर्णयितुं शक्यते। इदं धात्वा क्रमेण अतो येयः इत्यनायासेन मनसि प्रविशत्यानन्दं वर्धयति च। न जानेऽशेषसूत्रेष्ववबुद्धेषु क आनन्दो जायते इति किन्तु तमानन्दं ज्ञातुं प्रयते।

२०१९-११-२४ रविवासरः (2019-11-24 Sunday)

त्रपते भोजने न तृप्यति (Shy while eating is not satisfied)

यः भोजने त्रपते सः न तृप्यति।
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ॥गङ्गालहरी २८॥ अयं श्लोकः कल्पद्रुमे अस्ति किन्तु यः कल्पद्रुमः सङ्गणीकृतोऽस्ति तस्मिन् दोषोऽस्ति मन्ये इदं शुद्धं रूपमस्ति।
अपत्रप् to turn away or retire through shame
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येन अपत्रपते साधुरसाधुस्तेन तुष्यति॥
को न तृप्यति वित्तेन।
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसा वामलोचना॥
आपगा river, अन्तकः death

तृप् [ तृपँ प्रीणने ] दिवादि: परस्मैपदी वेट् सकर्मकः पुषादिः रधादिः अदित् ऋदुपधः पकारान्तः हलन्तः
त्रप् [ त्रपूँष् लज्जायाम् ] भ्वादि: आत्मनेपदी वेट् अकर्मकः ऊदित् षित् पकारान्तः हलन्तः

२०१९-११-१० रविवासरः (2019-11-10 Sunday)

काम एष क्रोध एषः (It is desire, it is anger)

अथ केन प्रयुक्तोऽयम् इति पृष्टे भगवान् उवाच –
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥गीता ३.३७॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि॥६.१.१३२॥ इति सूत्रेण एषः क्रोधः इति एष क्रोधः इति भवति।
कामः पुल्ँलिङ्गः शब्दः अस्ति। कम् कमुँ कान्तौ घञि कामः। कमेर्णिङ्॥३.१.३०॥ इति सूत्रेण णिङ् प्रत्ययः यस्मात् कम् + णिङ् + घञ् + सुँ = कामः।
क्रोधः अपि घञ् इति प्रत्यये सम्भवति तस्मात् क्रोधः अपि पुल्ँलिङ्गः शब्दः अस्ति।

२०१९-१०-२९ मङ्गलवासरः (2019-10-29 Tuesday)

योगी युञ्जीत सततम् (May the yogi be constantly united)

युञ्जीत – विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या)
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् त (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
यु न ज् त (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् त (श्नसोरल्लोपः (६.४.१११))
यु न् ज् सीयुट् त (लिङः सीयुट् (३.४.१०२))
यु न् ज् सीय् त (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
यु न् ज् सी त (लोपो व्योर्वलि (६.१.६६))
यु न् ज् ईत (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युं ज् ईत (नश्चापदान्तस्य झलि (८.३.२४))
युञ्जीत (अनुस्वारस्य ययि परसवर्णः (८.४.५८))

योगी युञ्जीत सततमात्मानं रहसि स्थितः।गीता ६.१०।

२०१९-०९-२१ शनिवासरः (2019-09-21 Saturday)

निपातनं त्राणम् (Protected)

अद्य केन्बरानगरे अस्माकं संस्कृतवर्गे छात्रैः अहं पृष्टः त्रै इति धातोः कः अर्थः इति। भ्रमितः अहं protect, torment इति अर्थौ अकथयम्। किन्तु त्रस् इति धातोः अर्थः torment इति भवति न तु त्रै इति धातोः।
त्रै  [त्रैङ् पालने] भ्वादि: आत्मनेपदी अनिट् सकर्मकः ङित्
वयमिदानीं क्तप्रत्ययरूपाणि शिक्षामहे।
त्रै क्त सुँ त्रातं त्राणम्। आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन सूत्रेण आदादेशः तत् परं नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) सूत्रेण रूपद्वयं त्राणः त्रातः।
रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् सूत्रात् नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (८.२.६१) सूत्रतः निष्ठातः किं भवति इति विधिसूत्राणि सन्ति। तकारस्य नकारः भवत्येव वा विकल्पेन भवति। चिन्तयामि अपि इयं प्रक्रिया निपातनमिति अभिधीयते। यतो हि अत्र नकारः पतति तस्मात् निपातनम्।

२०१९-०८-२२ गुरुवासरः (2019-08-22 Thursday)