मां विश्वः पश्यति ह्रीमनुभवामि तस्मादिदानीं बहिर्न गच्छामि।
सर्वादीनि सर्वनामानि (१.१.२७) इति सूत्रेण सह एका सूची अस्ति यस्यां पञ्चत्रिंशत् शब्दाः सन्ति येषां सर्वनामानि इति सञ्ज्ञा भवति। विश्वः तेषु एकोऽस्ति।विश्वः विश्वा विश्वम् इति त्रिषु लिङ्गेषु त्रिषु वचनेषु च अस्य शब्दस्य रूपाणि भवितुमर्हन्ति।
विश्वः विश्वौ विश्वे
विश्वम् विश्वौ विश्वान्
विश्वेन विश्वाभ्याम् विश्वैः
विश्वस्मै विश्वाभ्याम् विश्वेभ्यः
विश्वस्मात् विश्वाभ्याम् विश्वेभ्यः
विश्वस्य विश्वयोः विश्वेषाम्
विश्वस्मिन् विश्वयोः विश्वेषु
हि विश्व हे विश्वौ हे विश्वे
२०१९-१२-०७ शनिवासरः (2019-12-07 Saturday)