सच्चिदानन्दाः महोपाध्यायाः शेल्डन्पोलोकमहाभागाः (Professor Sheldon Pollock)

एतेषां महोपाध्यायानां What is South Asian Knowledge Good for? इति व्याख्यानविषये किञ्चिद् लिखामि। (http://crossasia-repository.ub.uni-heidelberg.de/3183/1/SAIP_2014_1-1.pdf)

SheldonPollock
Professor Sheldon Pollock

अत्र South Asian इति भारतीयः इति करोमि। इदं व्याख्यानं लेखरूपे २०१४वर्षे प्रकाशितमस्ति।
महाभागाः भारतीयज्ञानस्य द्विधा विभाजनं कुर्वन्ति। वस्तुतः ज्ञानम् (objective, the knowledge that outsiders have about India) पौरुषेयं ज्ञानम् (subjective, the knowledge that Indians have about themselves). महाभागाः कथयन्ति ये जनाः पश्चिमसंस्थाभ्यः बहिः कदापि नागच्छन् ते कदाचिद् मन्यन्ते भारतस्य लौकिकज्ञानस्य योगदानमिदानीं प्रचलति विश्वे शून्यमेव अस्ति इति। इदं न महाभागानां मतमस्ति किन्तु अन्येषाम्। महाभागाः एकस्य वेबरवर्यस्य मेकोलेवर्यस्य च वचांसि उद्धरन्ति। व्याख्याने यद् जर्मनभाषायामस्ति तस्य अनुवादः मया गुगलस्य अनुवादयन्त्रेण कृतः।

महोपाध्यायाः कथयन्ति यथा भारतीयाः स्वज्ञानं विषये मन्यन्ते तथा ते न मन्यन्ते किन्तु ते मन्यन्ते कानिचिद् क्षेत्राणि सन्ति यत्र भारतस्य ज्ञानं विश्वस्मै लाभकरं भवितुम् शक्नोति। ते भारतस्य ज्ञानस्य द्वे उदाहरणे ददति सन्धिविश्लेषणम् साहित्येषु रसाः च।

मम मते तेषां अस्मिन् व्याख्याने प्रमुखं वाक्यमस्ति, “What the region does provide is a record of the achievements of human consciousness, equaled by few other areas of inquiry in its richness and duration, and which thereby allows us to frame strong hypotheses about the nature of that consciousness and the conditions of its transformation.”
प्रगल्भं चिन्तयामि अपि महाभागाः consciousness इत्यस्य किमर्थं कुर्वन्ति? यथा ते अत्र किमपि व्याख्यानं विना consciousness इति वदन्ति तथा ते मन्यन्ते वयं सर्वे consciousness इति किम् इति सम्यग् अवबोधयामः एव। मन्ये तैः consciousness इत्यस्य निरूपणं कर्तव्यम्। इदं निरूपणं विना व्याख्यानस्य मुख्यवाक्यस्य प्रभावः उपयोगोऽपि नास्ति।

महाभागाः स्पष्टीकुर्वन्ति इदं ज्ञानं पूर्वं भारतस्य आसीत् किन्तु इदानीं कोऽपि अस्य विश्लेषणं कर्तुं शक्नोति। अन्यच्च यथा महाभागाः विश्वविद्यालयेषु संस्कृतस्य भारतीयविषयानां च विभागानां चर्चामस्मिन् व्याख्याने कुर्वन्ति मन्ये महाभागाः शोधकर्तॄणाम् आयोजनं विभागव्यवस्था च ज्ञानादपि अधिकं मन्यन्ते। महोपाध्यायाः भारतीयं ज्ञानम् आद्रियन्ते किन्तु दृढं मन्यन्ते शोधकार्यं भारतात् बहिः सुव्यवस्थितेषु विश्वविद्यालयेषु एव कर्तुं शक्यते इति। इदं ते न शब्देषु कथयन्ति किन्तु मन्ये व्याख्यानस्य अयमेकः प्रमुखः भागः अस्त्येव।

२०१९-१२-०६ शुक्रवासरः (2019-12-06 Friday)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.