अत्र दिसम्बरमासस्य प्रथमायां तिथौ ग्रीष्मर्तोरारम्भो भवतु इति श्वेताः शासति। अहं दृढं जाने तस्मिन् दिवसे प्रचण्डः घर्मः भवत्येव। अहं सदैव कथयामि ऋतुरपि श्वेतेभ्यः बिभेति इति तस्माद् दिसम्बरमासस्य प्रथमे दिवसे प्रकृतिः ऋतोः उपस्कुरुते।
अस्मिन् वर्षे तथा नाभवत्। दिसम्बरमासस्य प्रथमदिवसः द्वितीयदिवसोऽपि शीतेन गृहीतः। तस्माद् मन्ये श्वेतानां प्रभुत्वं क्षयति। ऋतुरपि स्वच्छन्देनाचरति न तेषां शासनं स्वीकरोति।

२०१९-१२-०३ मङ्गलवासरः (2019-12-03 Tuesday)