गान्धि नाम सर्वकार्येषु सदैव (Gandhi name for all seasons)

बाल्यकाले श्रूयते विवशानां आधारः मोहनदासकरमचन्दगान्धी – मजबूरी का नाम महात्मा गांधी। कदाचित् नवसन्ततिः तत् विस्मरति किन्तु अञ्जना-ओऽम्-कश्यपमहाभागा एकं नूतनं वाक्यं जनेभ्यः ददाति – विफलतायाः पर्यायः राहुलगान्धी। सफलतायै राष्ट्रपिता गान्धी विवशानां गान्धि विफलतायै अपि गान्धि नाम। निर्विघ्नं कुरु मे गान्धिन् सर्वकार्येषु सर्वदा।

२०१९-०९-२४ मङ्गलवासरः (2019-09-24 Tuesday)

गमकशक्तिः (Power to Convince)

अहं न्यूनामपि न्यूनां गमकशक्तिं न धारयामि। न इच्छामि कमपि माम् अनुमतं चालयितुं तथापि इच्छामि मम सकाशे अपि गमकशक्तिः भवेत्।
मम मित्रं लालचन्दः माम् एकां कथां श्रावयति स्म या कथा गमकशक्तिः का अस्ति तद् दर्शयति।
एकस्मिन् ग्रामे एकस्य कृषकस्य क्षेत्राणि पीठपञ्चकः (panchayat) हर्तुम् इच्छति स्म। ते एकां ग्रामसभाम् आयोजयन्। सभायां पीठपञ्चकः निरणयत् येषु क्षेत्रेषु कृषकः तिष्ठति ते क्षेत्राणि पीठपञ्चकस्य एव सन्ति तस्मात् कृषकः ततः शीघ्रम् अपगच्छेत् इति। निर्णयं श्रुत्वा कृषकः क्रन्दनं आरब्धवान्। ग्रामजनैः पृष्टः कथं क्रन्दति अपि तव क्षेत्राणि पीठपञ्चकेन व्याजेन हृतानि इति। कृषकेण प्रत्युदितं नैवं नैवं चिन्तयामि पीठपञ्चके गते कथं ग्रामेऽस्मिन् न्यायः।
गमकशक्त्या बन्दी अपि बन्दिगृहं प्रशंसति।
गमकः पुल्ँलिङ्गि गमयति बोधयति इति गम् णिच् ण्वुल् बोधकमात्रे।
यत् प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवम्।
तच्चेदस्ति ततस्तदैव गमकं पाण्डित्यवैदग्ध्ययोः॥मालतीमाधवे॥

२०१९-०९-२३ सोमवासरः (2019-09-23 Monday)

युञ्जयाद्योगम् (May unite in yoga)

युञ्ज्यात् – परस्मैपदी विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या (९.१.१))
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
युज् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् यासुट् ति (यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३))
युज् यास् ति (हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
युज् यास् स्ति (सुट् तिथोः (३.४.१०७))
युज् या ति (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युज् या त् (इतश्च (३.४.१००))
यु न ज् या त् (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् या त् (श्नसोरल्लोपः (६.४.१११))
युं ज् यात् (नश्चापदान्तस्य झलि (८.३.२४))
युञ्ज्यात् (अनुस्वारस्य ययि परसवर्णः (८.४.५८))

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः॥
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये॥गीता ६.१२॥

२०१९-०९-२२ रविवासरः (2019-09-22 Sunday)

योगी युञ्जीत सततम् (May the yogi be constantly united)

युञ्जीत – विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या)
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् त (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
यु न ज् त (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् त (श्नसोरल्लोपः (६.४.१११))
यु न् ज् सीयुट् त (लिङः सीयुट् (३.४.१०२))
यु न् ज् सीय् त (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
यु न् ज् सी त (लोपो व्योर्वलि (६.१.६६))
यु न् ज् ईत (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युं ज् ईत (नश्चापदान्तस्य झलि (८.३.२४))
युञ्जीत (अनुस्वारस्य ययि परसवर्णः (८.४.५८))

योगी युञ्जीत सततमात्मानं रहसि स्थितः।गीता ६.१०।

२०१९-०९-२१ शनिवासरः (2019-09-21 Saturday)

सुखमुपैति योगिनम् (Happiness comes to the Yogi )

उप + एति = उपैति इति इण् गतौ अदादिः परस्मैपदी प्रथमपुरुषः एकवचनं लट्लकारः।
ह्यः अस्मिन् वार्त्तापत्रे मया अपैति इत्यस्य अप एति इति विग्रहरूपं लिखितम्। भ्रमेण अमन्ये वृद्धिरेचि इति सूत्रेण अयं सन्धिः भवति। कथं भट्टमहाभागः मम भ्रममौहत न जाने किन्तु सः मामपृच्छत् केन सूत्रेण इति। मम भ्रमं निश्चित्य सः मां सूत्रद्वयमसूचयत् याभ्यां सन्धिः भवति।
एङि पररूपम् (६.१.९४) इतीदं सूत्रं वृद्धिरेचि (६.१.८७) इत्यस्य अपवादः अस्ति। एङि पररूपम् (६.१.९४) इत्यनेन वृद्धिः न भवति किन्तु ए इति पररूपं भवति। किन्तु एङि पररूपम् (६.१.९४) इत्यस्य अपवादः अस्ति एत्येधत्यूठ्सु (६.१.८९) यस्मात् वृद्धिः भवति।
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतकल्मषम्॥गीता ६.२७
अन्वयः – उत्तमं सुखम् हि उपैति प्रशान्तमनसं शान्तरजसं ब्रह्मभूतकल्मषम् एनं योगिनम्।

२०१९-०९-२० शुक्रवासरः (2019-09-20 Friday)

अपैति (Disappears)

२०१९-०९-१९ गुरुवासरः (2019-09-19 Thursday)

अप एति अपैति।
इत्युक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम्।
नाहं यामि स्वयं याहि भिक्षावेला हि अपैति मे॥कथासरितसागरः १३.३०.२७॥
Having spoken so by that guru, the student replied, “I am not going, you go, my time for begging is going away.”

युञ्जन् योगी (Yogi in union)

युञ्जन् पुल्ँलिङ्गः प्रथमाविभक्तिः एकवचनम्।
युज् शतृ – लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४)
अत्र शतृ प्रत्ययः शित् तस्य अत् एव विशिष्यते
यु श्नम् ज् अत् – रुधाधिभ्यः श्नम्(३.१.७८)। अत्र श्नम् इत्यस्य अन् अवशिष्यते तत्रापि श्नसोरल्लोपः(६.४.१११) सूत्रेण न् एव अवशिष्यते।
यु न् ज् अत् नश्चापदान्तस्य झलि (८.३.२४) अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः युञ्जत् सुँ युञ्जन्।
युञ्जन्नेवं सदात्मानं योगी नियतमानस।गीता ६.१५।
योगिनो यतचित्तस्य युञ्जतो योगात्मनः।गीता ६.१९।
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः।गीता ६.२८।