सुलग्नः बहुयत्नेन मृत्तिकायाः विघ्नेश्वरः।
मग्ने महारत्नाकरे मृत्तिकायां पुनः भग्नः॥
अत्र ओँलस्जीँ व्रीडायाम् टुमस्जोँ शुद्धौ भञ्जोँ आमर्दने इति धातुभ्यां क्ति चो कुः (८.२.३०) ओदितश्च (८.२.४५) इत्यनयोः प्रसक्तिः स्मर्तव्या। श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्य अपि प्रसक्तिः अस्ति यस्मात् ओँलस्जीँ इत्यस्मिन् इण्णिषेधः भवति। टुमस्जोँ शुद्धौ भञ्जोँ आमर्दने इति अनिट् धातू स्तः।

२०१९-०९-३० सोमवासरः (2019-09-30 Monday)