परिचारिका (Helper)

इदानीम् अहं मम भार्यया मम मात्रा मम भ्रात्रा च सह कोटानगरे मम मातृष्वसुः गृहे अस्मि। अद्य अत्र प्रातःकालतः कोलाहलः आसीत् यतो हि अञ्जना नाम तेषां परिचारिका नागच्छत्। मम मातृष्वसा परिचारिकां दूरभाषेण सम्पर्कं कर्तुं प्रयते स्म। किन्तु अञ्जना न उदतरत्। अन्ते कोऽपि तस्याः सम्बन्धी प्राप्तः। सः सम्बन्धी मम भार्यां मम मातृष्वस्त्रियस्य भार्यां (my cousin’s wife) च अञ्जनायाः गृहम् अनयत्। तस्याः गृहात् ते अञ्जनाम् अस्माकं गृहम् अनयताम्। अञ्जना अकथयत् सा विलम्बिता अस्ति तस्य कारणम् अस्ति तस्याः चलदूरभाषयन्त्रं कार्यं न करोति इति। सा विविधानि सिमपत्राणि (sim cards) उपयुनक्ति किन्तु तथापि तस्याः यन्त्रं कार्यं न करोति। मन्ये यावत् तस्याः यन्त्रे अन्तर्जालं कार्यं न करोति तावत् सा पात्राणि प्रक्षालयितुं न शक्नोति।

Anjanaa14July2018

अञ्जनामहोदया

२०१८-०७-१४ शनिवासरः (2018-07-14 Saturday)

Advertisements