Dillagi (दिल्लगी)

ह्यः मया ‘दिल्लगी’ इत्याख्यं चलचित्रं दृष्टम् । अस्मिन् चलचित्रे मुख्याभिनेता धर्मेन्द्रः संस्कृताध्यापकभूमिकां रूपयति । तस्य नाम स्वर्णकमलः । अभिनेत्री हेममालिनी फूलरेणुनाम्नीं रसायनाचार्यां नटयति ।  रसरसायनोरिव तयोर्मध्ये प्रणयः सम्भवति । सम्पूर्णं कथानकं एकस्मिन् महिलामहाविद्यालयस्य अन्तरस्थः एव घटते।

स्वर्णकमलः महाकविकालिदासविरचितान् काव्यान् बालिकाः पाठयति । सः तु पदे पदे सर्वेभ्यः कालिदाससूक्तीः श्रावयति । एकदा सः छात्रावासे विशिष्टकक्षायां (Special Class) मेघदूतं पाठयति। पश्यतु –

 

श्लोकस्तु अत्रास्ति।

स्ते लीलाकमलमलके बालकुन्दानुविद्धं

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥     (उत्तरमेघः २)

हे मेघ! जिस अलकापुरी में सुन्दरियाँ छः ऋतुओं के फूलों से शृङ्गार करती हैं जैसे कि उनके हाथों में लीलाकमल, अलकों में माध्यपुष्पों का गुम्फन, मुख में लोध्रपुष्पों के पराग से उज्ज्वल शोभा, केशपाशों में नूतन कुरवक पुष्प और सीमन्त (माँग) में तुम्हारे आगमन से उत्पन्न कदम्ब पुष्प रहता है ।।२।।

२०१८-०६-०७ गुरुवासरः (2018-06-07 Thursday)

 

 

Advertisements