पिहित (closed, concealed, covered)

पिहितशब्दं ‘closed’ अथवा ‘terminated’ इत्यर्थे दूरदर्शने प्रसारिते अद्यतनायां संस्कृतवार्त्तायां उपयुक्तम् । ‘भारतीयरिसर्वबैङ्केन व्यावसायिकऋणार्थमुद्घोषणपत्रस्य प्रणाली पिहिता – Reserve Bank of India has terminated the system of LoU for trade credits.

पश्यतु –

पिहितशब्दः अपिहित इत्यपि दृश्यते । अपिहित इत्यस्य रूपस्य सिद्धिः एवमस्ति।
अपि (उपसर्ग) + धा (धातु) + क्त प्रत्यय —>
अपि हि क्त (दधातेर्हिः ७।४।४२)। दधातेरङ्गस्य ‘हि’ इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः ।
अपिहितः इति रूपम् ।

एवं सति कथं अल्लोपसहितपिहित इति रूपं सिद्ध्यति? अत्र वयं अव्ययादाप्सुपः (२।४।८२) इत्येतं स्मरामः। यद्यपि अस्य सूत्रस्य प्रवृत्तिः ‘तत्र शालायाम्’, ‘तत्र शालायाम्’, ‘कृत्वा’, ‘हृत्वा’ इत्यादीनां सिद्ध्यर्थं भवति तथापि पारम्परिकेषु वृत्तीषु तत्प्रदेशे पठिते कारिकाश्लोके अल्लोपप्रमाणं दृश्यते ।

वष्टि भागुरिरल्लोपम् अवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ।।

अत्रस्थानि उदाहरणानि वगाहः, अवगाहः, पिधानम्, अपिधानम् ।

पिधानम्, अपिधानम् – अपिपूर्वकस्य धाधातोः (डुधाञ् धारणपोषणयोः) ल्युटि युवोरनाकौ (७।१।१) इत्यनेन अनादेशविभक्तिकार्यानन्तरं ‘अपिधान’ मिति प्रयोगः सिद्धः ।

तथैव पिहित-अपिहित, वगाह-अवगाह, वतंस-अवतंस इत्यादयः ।

केचित् पिधानशब्दसिद्ध्यर्थं अर्धर्चादिगणपाठं दर्शयन्ति । पश्यतु अर्धर्चाः पुंसि च (२।४।३१)। पठिते गणे केवलं पिधानशब्दः दृश्यते न तु वगाहवतंसेत्यादयः । एतेषां सिद्ध्यर्थं पुरातनवैयाकरणं भागुरिवर्यमनुसृत्य अस्माभिः अल्लोपः करणीयः ।

भाषायामपि ‘भिज्ञ – अभिज्ञ’ इति अल्लोपः दृश्यते इति नारायणप्रसादवर्येणापि उक्तम्।

(वर्तते)

२०१८-०३-१४ बुधवासरः (2018-03-14 Wednesday)

Advertisements