समयं विनैव (unconditional)

समयः शब्दस्य agreement इति अर्थः अपि भवति। सः तु उपयोगी शब्दः अस्ति।
दूरदर्शने प्रसारिते अद्यतनायां संस्कृतवार्तायाम् अस्ति – नरेशः अग्रवालः भाजपादलं समयं विनैव आगच्छत् (https://youtu.be/sfsurfiTRbA)- इति।

२०१८-०३-१३ मङ्गलवासरः (2018-03-13 Tuesday)

Advertisements

5 thoughts on “समयं विनैव (unconditional)

  1. समयाः शपथाचारकालसिद्धान्तसंविदः॥ ईत्यनरः।

    शब्दकल्पद्रुमः

    समयः, पुं, (सम्यगेतीति । सम् + इण् गतौ + पचाद्यच् ।) कालः । (यथा, उत्तरचरिते १ अङ्के । “समयः समवर्त्तत इवैष यत्र मां समनन्दयत् सुमुखि ! गौतमार्पितः । अयमागृहीतकमनीयकङ्कण- स्तव मूर्त्तिमानिव महोत्सवः करः ॥”) शपथः । आचारः । (यथा, महाभारते । १३ । ९० । ५० । “ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ! । निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवान् ब्राह्मणान् विदुः ॥”) सिद्धान्तः । संवित् । इत्यमरः ॥ क्रियाकारः । निर्द्देशः । भाषा । (यथा, महाभारते । ५ । ३३ । ११६ । “देशाचारान् समयान् जातिधर्म्मान् बभूषते यः सः परावरज्ञः ॥”) सङ्केतः । इति मेदिनी ॥ (व्यवहारः । यथा, मनुः । १० । ५३ । “न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ॥”) सम्पत् । नियमः । (यथा, भागवत । ३ । २२ । १८ । “अतो भजिष्ये समयेन साध्वीं यावत्तेजो विभृयादात्मनो मे ॥”) अवसरः । इति हेमचन्द्रः ॥ * ॥ कालप्रशंसा । यथा, — परशुराम उवाच । “राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्व्वकम् । कालभेदे जयो नॄणां कालभेदे पराजयः ॥ काले सिंहः शृगालञ्च शृगालः सिंहमेव च । काले व्याघ्रं नरो हन्ति गजेन्द्रं हरिणस्तथा ॥ महिषं मक्षिका काले गरुडञ्च यथोरगः । किङ्करः स्तौति राजेन्द्रं काले राजा च किङ्क- रम् ॥ इन्द्राश्च मनवः काले काले राजा मरिष्यति । तिरोहिता च प्रकृतिः काले श्रीकृष्णविग्रहे ॥ मरिष्यन्ति सुराः सर्व्वे त्रिलोकस्थाश्चराचराः । सर्व्वे काले लयं यान्ति कालो हि दुरतिक्रमः ॥ कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया । संहर्त्ता चैव संहर्त्तुः पातुः पाता परात्परः ॥ महास्थूलात् स्थूलतमः सूक्ष्मात् सूक्ष्मतमः कृशः पराणुः परमः कालः कालश्च कालभेदकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४० अध्यायः ॥ * ॥ अपि च । “कालः करोति संसर्गं बन्धूनां बन्धुभिः समम् । कालः करोति विच्छेदं विरोधं प्रीतिमेव च ॥ कालः सृष्टिञ्च कुरुते कालश्च परिपालनम् । कालः करोति सानन्दं कालः संहरते प्रजाः ॥ सुखं दुःखं भयं शोकं जरां मृत्युञ्च जन्म च । सर्व्वं कर्म्मानुरोधेन काल एव करोति च । सर्व्वं कालकृतं तात विस्मयं न व्रज व्रज ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९० अध्यायः ॥ दश काष्ठाः किला नाम तत्संख्या स्याच्च घाटिका ॥ घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् । चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥ सूर्य्योदयादिविज्ञेयो मुहूर्तानां क्रमः सदा । पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ अपरं नृसिंहपुराणे २ अध्याये कौर्म्मे ६ अध्याये च द्रष्टव्यम् ॥

    Like

  2. There’s also this usage ‘निरस्तनारीसमयादुराधयः’ (किरातार्जुनीये १।२८) in which the phrase ‘ निरस्तनारीसमयाः’ is glossed by Mallinatha as ‘त्याजितशालीनतारूपस्त्रीसमाचाराः’ meaning ‘whose womanly conduct in the form of modesty was caused to be set aside’ – loosely paraphrasing Kale. Then Mallinatha cites Amara ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ (See Dr Bhat’s comment above). ‘शपथाचारकालसिद्धान्तसंविदः’ should mean ‘oath, conduct, time, authoritative opinion and agreement’ respectively. In this quote, the word ‘समय’ is used in the sense of ‘आचार’ or conduct.

    Like

    1. न जाने भवतः संस्कृतज्ञानस्य अथवा आङ्ग्लभाषालेखनस्य स्तुतिं कर्तव्यम् इति। धन्यवादः।

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.