वेलणदिवसाय अभिनन्दनानि (Good wishes for ”Velan” day)

यः इदानीं वेलेण्टाईनदिवसः इति कथ्यते मया कुत्रापि पठितं तस्य जन्म गुर्जरदेशे अभवत् इति। तस्मिन् दिवसे नार्यः स्वभर्तां वेलणम् इति अस्त्रेण ताडयन्ति स्म। गुर्जरदेशे वेल्लनी (rolling pin, बेलन) इति वेलणम् इति कथ्यते।
अन्ते इदं तथ्यं मेरियेम-वेब्स्टर-शब्दकोषेण अपि स्वीकृतम्। पश्यतु भारतीययुगलयोः मेरियेम-वेब्स्टर-शब्दकोषेण प्रकाशितम् इदं चित्रम्। अखिलविश्वे यदा कोऽपि प्रेमपाशेन बद्धयोः युगलयोः कल्पनां करोति तदा सः भारतीयं युगलम् एव चिन्तयति।

lovey-doveyCouple-MWDictionary
Lovey-dovey Depiction on Valentine’s Day (Merriam-Webster Dictionary)

हार्दिकशुभेच्छा शुभाशयाः शुभकामनाः शुभाशीषः वर्धापनम् अभिनन्दनानि च।

२०१८-०२-१४ बुधवासरः (2018-02-14 Wednesday)

Advertisements

महाशिवरात्रिः (Mahashivaratri)

सर्वेभ्यः महाशिवरात्रिभ्यः शुभकामनाः व्याहरामि।

२०१८-०२-१३ मङ्गलवासरः (2018-02-13 Tuesday)

दासपरम्परा जीवति (Slavery lives on)

केन्बरा नगरे दासपरम्परा जीवति इति अद्य रात्रौ एकस्य दूरदर्शनस्य कार्यक्रमे दर्शयितम्। पश्यतु http://www.abc.net.au/news/2018-02-12/domestic-staff-inside-canberra-embassies-being-exploited/9418920

२०१८-०२-१२ सोमवासरः (2018-02-12 Monday)

मन्दिरम् अगच्छम् (Went to the temple)

प्रतिरविवासरं वयं मिलित्वा मन्दिरे क्रियायोगं कुर्मः। गतत्रिरविवासरेषु अहं मन्दिरे न अगच्छं किन्तु अद्य अहम् अगच्छम्। अन्यैः सह मिलित्वा योगाभ्यासस्य विशेषानन्दः अस्ति।

२०१८-०२-११ रविवासरः (2018-02-11 Sunday)

माता कन्या वाग्बद्धे अभवताम् (Mother and daughter silenced)

मम भार्या अमेजोनतः (from Amazon) पुस्तिकाः (notebooks) अक्रीणात्। ते पञ्चपुस्तिकाः अप्रेषयन्। मम भार्या अतीव प्रीणाति स्म यतो हि सा अमेजोनात् पञ्चगुणां पुस्तिकां प्राप्नोति इति। अहम् अकथयम् यत् मूल्यं सा अददात् तत् पञ्चपुस्तिकानाम् एव मूल्यम् अस्ति इति। इति श्रुत्वा माता कन्या च माम् आक्रामताम्। भवान् कथं कस्य किं मूल्यम् अस्ति इति जानाति। भवान् कदापि आपणं न गच्छति। वयं सर्वं क्रयविक्रयणं कुर्मः। अहं सर्वाणि आक्रमणानि असहे।

क्रुद्धा कन्या अपृच्छत् इदानीम् कदलीफलस्य किं मूल्यम् अस्ति इति। अहं उदतरं सार्धद्विडोलरं प्रतिप्रस्थम् ($2.50 per kg) इति। सा तूष्णीं साधितवती। मम भार्या अपृच्छत् यत् मधुमेहे उपयुक्तानि मिष्टखण्डानि अहं क्रीणामि तेषां मूल्यं किम् इति। अहं किमपि गणनां कृत्वा उदतरं शत् खण्डानि पञ्चषं डोलरम् (between five and six dollars) इति अस्ति। तत् परं सा तूष्णीं साधितवती। आवयोः कन्या अवदत् किमपि नास्ति यत् सः न जानाति इति।

अन्ते परीक्षणं कृत्वा मम भार्या अगवेषयत् अमेजोनस्य मूल्यं प्रतिपोटलस्य मूल्यम् एव अस्ति। प्रतिपोटले पञ्चपुस्तिकाः एव आसन्।

एतादृशः सम्पूर्णः विजयः मया जीवने कदापि न प्राप्तः।

२०१८-०२-१० शनिवासरः (2018-02-10 Saturday)

सहकर्मिभिः सह मेलनम् (Meeting with the Colleagues)

अद्य इयन-पीटरसनवर्यः सहकर्मिणः स्वगृहे मेलनाय आह्वयत्। सत्कारार्थं तैः पेयानि अल्पाहारः च अर्पयतः। इयनस्य कुटुम्बं विहाय दम्पतीचतुष्टयम् एकः छात्रः च मेलने आसन्।

इयनः अस्माकं शोधक्षेत्रे जगत्विख्यातः अस्ति। तस्य पाण्डित्यं विनम्रता च जगत्विख्याता अस्ति। जीवने यदि अहं कम् अपि साधुं योगिनं वा अमिलं तदा सः अस्ति इयनवर्यः। सः नास्तिकः अस्ति किन्तु तया सदृशं किम् अपि महान्तम् आस्तिकम् अहं न कदापि अमिलम्।

मेलने सः छात्रेण सह सम्भाषते स्म तदा तस्य भार्या अशृणोत् सः कार्यविषये चर्चां करोति इति। सा इयनम् अपृच्छत् अपि भवान् कार्यविषये चर्चां करोति इति। सः अकथयत् आम् इति। तदा तस्य मुखस्य भावः वर्णातीतः आसीत्। एकः साधुजनः कथं भार्याम् उत्तरति तस्य ज्ञानं तस्य मुखस्य भावे आसीत्।

मेलने अहं मम भार्या च आनन्दम् अन्वभवाव।

२०१८-०२-०९ शुक्रवासरः (2018-02-09 Friday)

शोथः (Swelling or Tumour)

शोथः देवदत्तं पीडयति।

पश्यतु http://www.sanskritdictionary.com/?q=%C5%9Botha&display=devanagari
and
http://www.cfilt.iitb.ac.in/wordnet/webswn/wn.php

२०१८-०२-०८ गुरुवासरः (2018-02-08 Thursday)