आकाशस्य मानचित्राणि (Maps of the Sky)

अद्य अहम् आवयोः कन्याभ्यां सह ओस्ट्रेलिया-राष्ट्रीय-विश्वविद्यालये (ANU, Canberra) एकस्मिन् व्याख्याने अगच्छम्। व्याख्यानम् अस्ति – MAPPING THE SKY: FROM ANCIENT TIMES TO THE MODERN AUSTRALIAN SKYMAPPER TELESCOPE।व्याख्यानं द्वौ व्याख्यातारौ अदत्ताम्। एकः आसीत् नोबेलपुरस्कृतः ब्रायन-श्मिड्ट्वर्यः। व्याख्यानं ज्ञानवर्धकं रुचिकरं च आसीत्।

२०१८-०२-२१ बुधवासरः (2018-02-21 Wednesday)

Advertisements

रजितः केन्बरानगरम् आगच्छत् (Prof Rajit Gadh visits Canberra)

मम सहकर्मी रजितवर्यः अद्य केन्बरानगरम् आगच्छत्। सः केन्बरानगरम् एकस्मिन् रात्रौ एव अतिष्ठत्। सः लोस्-एन्जलिसनगरे केलिफोर्नियाविश्वविद्यालये प्राध्यापकः अस्ति – https://en.wikipedia.org/wiki/Rajit_Gadh अहं तेन सह शोधकार्यं कर्तुं सम्पूर्णे २०१३तमे वर्षे तस्य विश्वविद्यालये आसम्। इदानीम् अपि तेन सह कार्यं करोमि।

RajitCanberra20Feb2018small
Himanshu & Rajit (right) on Mount Ainslie Canberra (Parliament House in the background) on 20 Feb 2018

२०१८-०२-२० मङ्गलवासरः (2018-02-20 Tuesday)

प्रवञ्चना (Fraud)

अहं न विश्वसिमि कोऽपि मम सम्बन्धी प्रवञ्चनायाः बलिः भवितुं शक्नोति। अभिलाषः मम पितृव्यपुत्रस्य पुत्रः अस्ति।
https://www.sbs.com.au/yourlanguage/punjabi/en/article/2018/02/20/immediately-leave-australia-indian-migrant-duped-6000

SwatiAbhilashFeb2018
Swati and Abhilash Nagar

२०१८-०२-१९ सोमवासरः (2018-02-19 Monday)

भरतव्यासः दिवं गतः (Bharat Vyas Passed Away)

भरतव्यासस्य दुःखदः समाचारः श्रुत्वा मम मनसि अतीवशोकः जायते। सः मम सहपाठी मित्रं च आसीत्। भरतस्य मुखं सदैव स्मितास्पदम् आसीत्। मया कदापि सः स्मितं विना न दृष्टः। वयं प्रार्थामहे तस्य दिवङ्गतस्य आत्मनः निवासः ईश्वरगृहे भवेत्।

LateBharatVyas18Feb2018
Bharat Vyas – 18 Feb 2018

२०१८-०२-१८ रविवासरः (2018-02-18 Sunday)

सृ इति धातुः (To go)

धातुपाठे अस्ति –
सृ गतौ इति भ्वादिगणीयः परस्मैपदी अनिट् धातुः।
सृ गतौ इति जुहोत्यादिगणीयः परस्मैपदी अनिट् धातुः।
तस्मात् कथं सरिष्यति इति। अत्र इडागमः तु अस्ति। यथा गमेरिट् परस्मैपदेषु इति सूत्रम् अस्ति तथा अत्र किमपि सूत्रम् अस्ति?

२०१८-०२-१७ शनिवासरः (2018-02-17 Saturday)

व्यतिरेकः(Separation, Difference, Exception)

वि + अति + रिच् + घञ् + सुँ = व्यतिरेकः इति कल्पद्रुमः
परमात्मतत्त्वव्यतिरेकेण अन्यत्र कुत्रापि विषये मनो न गतम्। पृष्ठम् ३, श्रीश्रीरामकृष्ण-कथामृतम् (श्रीजगन्नाथानन्दस्वामिना भाषान्तरितम्)।
Separated from the essence of God, the mind didn’t go anywhere else into any other subject. From Sanskrit translation by Shri Jagannathananda Swami of Shri Ramakrishna kathaamrita.

२०१८-०२-१६ शुक्रवासरः (2018-02-16 Friday)

माल्कमवर्यः बार्नबीवर्यं तर्जयते (Malcom scolds Barnaby)

कोऽपि विश्वस्तुं न शक्नोति वृद्धजनाः परस्परं तर्जयन्ते इति। अद्य माल्कमवर्यः बालकम् इव बार्नबीवर्यम् अतर्जयत।

9454042-16x9-220x124
Malcolm and Barnaby (Courtesy ABC)

पश्यतुhttp://www.abc.net.au/news/2018-02-15/turnbull-slams-joyce-affair-changes-to-ministerial-standards/9451792

२०१८-०२-१५ गुरुवासरः (2018-02-15 Thursday)