स्वामिविवेकानन्दः (Swami Vivekananda)

अद्य स्वामिविवेकानन्दस्य जन्मदिवसः अस्ति। भारतदेशे अयं दिवसः युवादिवसः इति आमान्यते।
गतमासे अहं मम भार्यया सह फिजीदेशम् अगच्छम्। तत्र प्राप्य वयं प्रथमं विवेकानन्दमहाविद्यालयम् अगच्छाम।
१९८९वर्षतः स्वामिदामोदरानन्दः फिजीदेशात् प्रत्येकस्मिन् वर्षे ओस्ट्रेलियादेशम् आगच्छति स्म। तदा सः केन्बरानगरम् अपि आगच्छत् अस्माकं गृहे एव अतिष्ठत् च। सः सदैव स्वामिविवेकानन्दमहाविद्यालयस्य आश्रमस्य च चर्चाम् अकरोत्। स्वामिदामोदरानन्दः २०१४वर्षे दिवं गतः। मम इच्छा आसीत् एकवारं स्वामिदामोदरानन्दस्य आश्रमं गमिष्यामि। सा इच्छा ८दिसम्बर२०१७तिथौ पूर्णतां गता।

२०१८-०१-१२ शुक्रवासरः (2018-01-12 Friday)

Advertisements