शरदयादवः लालायति (Sharada Yadav is Salivating)

आङ्ग्लदेशस्य राज्ञीम् निकषा किमपि राजबलं नास्ति ततः अपि सा राजते। कथम् एतत्? सा कौटिल्येन जनान् चीत्वा पुरस्करोति। सा यस्मात् जनान् चिनोति यस्मात् पुरस्करोति च तस्मात् ये जनाः पुरस्कारं न प्राप्नुवन्ति ते सदैव पुरस्कारस्य अभिलाषां धारयन्ति। ये जनाः पुरस्कारम् अप्राप्नुवन् ते सदैव राज्ञ्याः गुणान् स्तुवन्ति यतो हि राज्ञ्याः प्रकाशात् ते अपि भान्ति। अस्मात् कौटिल्यात् सा अद्यापि विराजते।

SharadYadavSonia2017

तथैव सोनियामहाभागा अपि विराजते। शरदयादवाय नितीश-भाजप-दलयोः प्रणयः न रोचते। कथम्? अस्मिन् भाचित्रे पश्यतु कस्मात् शरदवर्यः आत्मानं सोनियामाहाभागया सह उपविश्य धन्यं मन्यते इति। इदम् अद्य मया लब्धं भविष्यकाले किं प्राप्स्यामि इति सः स्वप्नं पश्यति लालायति च। सः सोनिया-राहुलाभ्यां वशीकृतः। सः किमपि अन्यं न पश्यति। यदा सः स्वप्नात् जागरिष्यति तदा सः ज्ञास्यति न तत्र सोनियामहाभागा न तत्र राहुलः केवलः वराकः शरदः।

२०१७-०८-०१ मङ्गलवासरः (2017-08-01 Tuesday)

Advertisements