शून्यतमः श्लोकः (zeroth shloka)

अर्जुन उवाच
प्रकृत्तिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥गीता १३.०॥
क्षेत्रक्षेत्रज्ञविभागयोगः नाम त्रयोदशे अध्याये अयं श्लोकः सर्वेषु गीताप्रकाशनेषु न अस्ति। यस्मिन् संस्करणे अयं श्लोकः अस्ति तत्र अस्य श्लोकस्य क्रमसङ्ख्या शून्या एव अस्ति। अनेन श्लोकेन सह गीतायाः श्लोकसङ्ख्या एकाधिकसप्तशतम् (७०१) अस्ति किन्तु जनः सङ्ख्या सप्तशतं (७००) भवेत् इति वाञ्छति तस्मात् मन्ये अस्य श्लोकस्य सङ्ख्या शून्या अस्ति।

२०१७-०१-०२ सोमवासरः (2017-01-02 Monday)