आमान्यते (Celebrate)

अद्य समग्रविश्वे जनैः ईसामसीहजन्मदिवसपर्व आमान्यते।
आमान्यते इति संस्कृतवार्तायाम् उपयुञ्जते। आमान्यते इति पदे कः धातुः?
बलदेवानन्दसागरवर्यः लिखति –
महोदय !
नमोनमः | “मानि [ मान् ] पूजायां धातोः भाव-कर्मणोः आङ्-उपसर्ग-पूर्वकं रूपं भवति- आमान्यते इति | शब्दिकोsर्थः भवति- आद्रियते, सम्मान्यते चेत्यादि | परञ्च धातूनाम् अनेकार्थाः इति कृत्वा व्यावहारिक-प्रयोगतया “मनाया गया” “आयोजित किया गया” चेत्यादि प्रयोगेषु “आमान्यते” “मानितः” “परिपालितः” इति प्रयोगः सुतरां सुलभः सरलश्च | अपि च,
धातुरत्नाकरः इति सुख्यातः ग्रन्थः | तस्य सम्पर्क-सूत्रं प्रेषयामि |…. https://www.scribd.com/document/214978616/Dhatu-Ratnakara-Munilavanya-Vijayasuri-Vol-vii …..

अत्र १८९- इति पृष्ठे ” भावकर्म-प्रक्रियायां भ्वादि-गणे प्रदत्तस्य आत्मनेपदिनो मान्-धातोः रूपाणि प्रदर्शितानि सन्ति…|
७४९…मानि [ मान् ] पूजायाम्- भावकर्म-प्रक्रियायां भ्वादिगणे आत्मनेपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते |
१२६३…मनिंच् [ मन् ] ज्ञाने … भावकर्म-प्रक्रियायां दिवादौ आत्मनेपदी व्यञ्जनान्त-धातुः … मन्यते मन्येते मन्यन्ते |
१५०७ – मनूयि [ मन् ] बोधने मन्यते तनादि-गणे उभयपदी … मन्यते मन्येते मन्यन्ते
१८१० – मनिण् [ मन् ] स्तम्भे–भावकर्म-प्रक्रियायां चुरादिगणे आत्मनेपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते
१९७० –मानण् [ मान् ] पूजायाम्- भावकर्म-प्रक्रियायां चुरादिगणे परस्मैपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते

२०१६-१२-२५ रविवासरः (2016-12-25 Sunday)