मुकुटोपलस्खलत्करैः (Hand fumbling on the precious stones in their crown)

स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ।।शिशुपालवधम् 1.46॥
अन्वयः – श्रियः आश्रयः संचरिष्णुः स यदृच्छया भुवनान्तरेषु याम् अशिश्रियत् मुकुटोपलस्खलत्करैः त्रिदशैः त्रिसंध्यं तस्यै दिशे नमः अकारि ।
अस्य श्लोकस्य अन्वयः विश्लेशणं च अत्र पश्यतु – https://maghakavyam.wordpress.com/2011/07/20/1-46/
Translation: When he (Haranyakashapu), the abode of Glory, would by chance resort to any quarter, with a desire to travel in the various worlds, in that direction salutations were offered by (the thirty) gods in all the three junctures of day, with their hands fumbling on the precious stones in their crown. (Translation from – http://www.dli.ernet.in/bitstream/handle/2015/406511/Sisupalavadham-.pdf?sequence=1&isAllowed=y)

मुकुटोपलस्खलत्करैः इति विशेषणस्य हेतुः अभिप्रायः प्रयोजनम् औचित्यं वा न बोधामि। कृपया मां बोधयतु।
२०१६-१०-२१ शुक्रवासरः (2016-10-21 Friday)